________________
[ है ० २.३.४२. ]
परानन्यानपि पास्तम् ॥
तृतीयः सर्गः ।
करम्भमवाषिष्वणदभोजयत् । एतेनास्यात्मंभरित्वम
२८५
योद्रो व्यषिष्वणज्जायां स्वयं चैलामवाण्वणत् । सोवस्वनन्करी बद्धो व्यष्वणच्छष्पपूलिकाः ।। १३५ ।।
१३५. यः करी अद्रौ विन्ध्यशैले जायां करेणुकामेलां सुगन्धितरुविशेषं व्यषिष्वणोजितवान् । स्वयं च य एलामवाष्वणदर्भुङ्क । स्वभार्यान्वितो य एलां भुक्तवानित्यर्थः । एतेनास्यातिसुखितत्वमुक्तम् । स करी बद्ध आलानस्तम्भे निगडितोवस्व नन्नवबद्धत्वेन बन्धासहत्वादाक्रन्दन्सन् शष्पपूलिका नवतृणपूलान् व्यष्वणदभुत । एतेन सुखदुःखावस्थे महतामपि भवत इत्युक्तम् ॥
उष्टान्विस्वनतो भाराद्विषण्णानौष्ट्रिको जनः ।
न्यषीषदन्निषिषत्सून्निषसाद न तु स्वयम् ॥ १३६ ॥
·
१३६. औष्ट्रिको जन उष्ट्रान्यषीषद दुपावेशयत् । किंभूतान्सतः । भाराद्धेतोर्विषण्णान् श्रान्तानत एव निषिषत्सूनुपवेष्टुमिच्छून् । तथा विस्वनत आरटतः । न तु स्वयं विषसादोष्ट्रसंबन्धिभिर्भारावतारणचार्यानयनादिभिरनेकव्यापारैर्व्यापृतत्वान्न पुनरात्मना भूम्यामुपाविशन् । एतेनौष्ट्रिकाणामुष्ट्रेष्वतिहितत्वोक्तिः ॥
न्यषीदत्प्रतिसन्नोभम्बामपि प्रत्यसीषदेत् ।
साप्यप्रतिसिषत्युं तत्पितरं प्रत्यसीसदत् ॥ १३७ ॥
१३७. प्रतिसन्नः श्रान्तोर्भो बालको न्यषीददुपाविशत् । अम्बा
१ बी दन् ।.
१ सी 'मुक्त । स्व.