________________
२८४
शाश्रयमहाकाव्ये
[मूलराजः] नपाकृत्य नदीनिकटगुमानाश्रिता इत्यर्थः । तथा परेवष्टम्भं चित्तस्थैर्यमवष्टभ्याश्रित्य तटोरवतष्टम्भुश्छायागुपभोगायाश्रिताः । अपायबहुले हि नदीतटे चित्तावष्टम्भेनैवावस्थीयते ॥
सादिवर्ग उपष्टब्ध उपस्तब्धांस्तुरङ्गमान् ।
अवातस्तम्भदावासपार्चेवस्तब्धकन्धरान् ॥ १३३ ॥ १३३. उपष्टब्ध ऊर्जस्वी सादिवर्गोश्ववारौघस्तुरङ्गमानावासपाधैं स्वाश्रयसमीपेवातस्तम्भदाश्रयं प्राहितवान् । कीदृशान् । उपस्तब्धान्बलिष्ठांस्तथावस्तब्धकन्धरानुन्नतग्रीवान् ॥
विष्टब्ध । वितष्टम्भुः । व्यष्टम्मन् । इत्यत्र “अडपति" [११] इत्यादिना षः ॥ अप्रतिस्तब्धनिम्तब्ध इति किम् । व्यतस्तम्मन् । प्रतिस्तब्धाः । निस्तब्धाः ॥
आश्रये । अवष्टभ्य । अबतष्टम्भुः । अवाटनन् ॥ अर्ज(जै!)। अवष्टम्मम् । भविदूरे । अवष्टब्ध । इत्यत्र “अवाचा" [४२] इत्यादिना पः ॥ चकारोड इत्यस्यानुकर्षणार्थोनुक्तसमुखयार्थश्च । तेनोपष्टब्ध इत्यत्रोपादपि । उपवादित्यकृत्वा चकारेण सूचनमनित्यार्थम् । तेनोपस्तब्धानित्यपि ॥ आश्रयादिग्विति किम् । अवस्तब्ध ॥ अब इत्येव । अवातस्तम्भत् ॥
अवषिष्वणिषुः कोपि विषष्वाण करम्भकम् ।
त्वं विष्वणावष्वण त्वं चेत्यवाषिष्वणत्परान् ॥ १३४॥ १३४. अवषिष्वणिषुभोक्तुमिच्छु: सशब्दं बुभुक्षुर्वा भुजानः कंचिच्छन्दं चिकीर्षुर्वा कोपि भट: करम्भकं दधिसक्तन्विषष्वाण बुभुजे सशब्दं भुक्तवान्वा भुजान: कंचिच्छब्दं चक्रे वा । एवमन्यत्राप्यर्था आविर्भावनीयाः । श्रमतप्ताङ्गा हि बुभुक्षवः शीतत्वात्करम्भं भुजते । तथा त्वं विष्वण अङ्क त्वं चावष्वण भुवेत्येवंप्रकारेण
१ ए सी. आश्रिया'. २ बी नः किंचि. ३ सी भुव त्वं.