________________
२८२
व्याश्रयमहाकाव्ये
[मूलराजः] सत्वेनाप्रतिहतादेशो द्वास्थ: प्रतीहारोसमासादन्यायानिषिषेध । एतेन मूलराजस्यात्यन्तमाझैश्वर्यमुक्तम् ।।
भुवि द्विपाध्यकन्ये दिग्गजास्यषिषेधिषन् । तरून्मूर्धाभिषिक्तभास्ते न्यषिञ्चन्मदाम्भसा ॥ १२८ ॥ १२८. ते मूर्धाभिषिक्तेभाः पट्टहस्तिनस्तरून्मदाम्भसा न्यषिञ्चन्ननपयन् । ये भुवि द्विपान्यषेधन् । मदोल्वणतया सर्वगजजैत्रत्वाद्धवि प्रतिद्विपप्रचारं ररक्षुरित्यर्थः । तथा दिग्गजायषिषेधिषन्यकर्तुमैच्छन् । एतेन स्वर्गेपि येषां प्रतिमल्ला द्विपा न सन्तीत्युक्तम् ॥
पादौ निषिषिचुस्तोयैयषिषिक्षश्च सर्पिषा ।
श्रमाभिषङ्गान्मद्वयोभ्यविषकन् जलाईया ॥ १२९ ॥ १२९. मृङ्गायः स्त्रियः श्रमाभिषङ्गान्मार्गखेदसंवन्धाद्धेतोः पादौ जलैर्निपिपिचुः क्षालितवत्यः । सर्पिषा घृतेन न्यपिषिक्षश्च सेक्तु. मैच्छंश्च । अभ्यतमैच्छन्नित्यर्थः । तथा जलाया जलकृतवनेणाभ्य. विषङ्कसंवन्धयितुमैच्छंश्च । स्नानघृताभ्यङ्गजलावन्धनहिं शीतक्रियाभिः श्रम उपशाम्यति ॥
वणिजोभ्यषजन्सास्थ्यं परिष्ठाप्यापणान्पथि ।
अनतिस्थितयस्तत्राभिषषनुः क्रयार्थिनः ॥ १३० ॥ १३०, स्थिति नातिक्रान्ता अनतिस्थितयो यथोचितस्थानस्थाः समर्यादा वा वणिज: पथि आपणान् हट्टान्परिष्ठाप्य संस्थाप्य विस्तार्य सौस्थ्यमभ्यषजन्नाश्रिताः । व्यवहारप्रवर्तनेन सुखिता बभूवुरित्यर्थः ।
१ बी दौ न्यपि . २ ए सी डी मृधहयो'. ३ वी 'भिषेष'. १५ सी डी 'मृद्याय. २ सी जस्खेद. ३ सी डी व सक्तु