________________
[है• २.३.३८.] तृतीयः सर्गः ।
२७९ खात् । सिसिक्षतः । एषकारः षण्येव णिस्तोरिति विपरीतनियमनिवृत्त्यर्थस्तेमे. हापि भवति । असीपिचत् । तुष्टाव। पत्वं किम् । सुषुप्सन्तम् ॥ नकारः किम् । यतिसुषुपिणे । नात्र सन् किं तु परोक्षा से ॥ कथमधीषिषन् । पणि निमिसे धातोः पत्वनियम उक्त इह तु सन एव द्विरुक्तस्य परवं न धातोरिति न प्रतिषेधः । अत्र इं दुं दुं शुं श्रृं गतौ ज्ञानेर्थे एक गतौ वा । अज्ञानेर्थे हीणो गमादेशः स्यात् ॥ सोपिषमाण इत्यत्र यैङि षत्वं पश्चारसन्निति न प्रतिषेधः । येषां तु दर्शने द्विरवेपि पुनः सनि द्विरुक्तिस्तम्मते सुसोषुपिषमाण इत्यत्र पणि सुशब्दा. स्परस्य सस्य परवं न भवत्येव ॥ असिषजयिषत् सिसअयिषुः । इत्यत्र “सर्वा" [३८] इति वा षः ।।
हयाननभिषुण्वन्तोभ्यषुण्वन्केचिदम्भसि ।
धर्माभिषयमाणांश्चाभ्यषुवन्सुहृदो मुहुः ॥ १२२ ॥ १२२. केचिदश्वपाला: शोभनावान्वितत्वेन शोभनं हृद्वक्षो येषां तान्सुहृदो हयान्धर्माभिषूयमाणानातपेनाक्रम्यमाणान्सतो मुहुर्वारवारमम्भसि जलेभ्यषुण्वन्ननपयन् । अन्तर्भूतणिगर्थोत्र सुग् । किंभूताः सन्तोनभिषुण्वन्तो गाढजलप्रहारैरपीडयन्तः । एतेन स्नापनकौशलोक्तिः । स्वयमलान्तो वा । एतेन चैषामात्मनोपि हयेषु बाढं वात्स. स्यमुक्तम् । तथा सुहृदो मित्राणि धर्माभिषूयमाणानत एव हयन्तीति हयास्तान् वाम्यत: सतोम्भस्यभ्य॑षुवंश्च क्षिप्तवन्तश्च ।।
कर्माभिष्टुत्यमभ्यस्यन्येभिष्यत्यनिले श्रमम् ।
भृत्यांस्ताननभिष्टोभानस्वामिनोभ्यंष्टवन्मुदा ॥ १२३ ॥ १२३. अनिले श्रमं मार्गखेदमभिष्यति नदीशीकरोन्मिश्रत्वेना१बी भ्यध्यन्ये . २ एसी म्यष्टव. १बी चानार्थे . २५ सी माणो.डी माणे इ. ३ बी यक्षिप'. ४ वी ते नैषा'. ५सी 'मान'. ६ सी भ्यश्च.