SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] स्वापक्रियाव्यतिहारेण किमिति सुप्त इति । विभौ हि सोपुपिषमाणे भृत्यस्य स्वापोविनयहेतुत्वेनायुक्तः ॥ २७८ सुसोपुपिषमाणोपि कोपीनाज्ञामधीषिषन् । नासिषञ्जयिषच्चक्षुः सिसञ्जयिषुरिन्धनम् ॥ १२१ ॥ १२१. कोपि भृत्यः सुसोपुपिषमाणोपि श्रान्तत्वेनात्यर्थ स्वप्तुमिच्छन्नपि चक्षुर्नासिषञ्जयिषन्मेलयितुं नैच्छन्न सुप्त इत्यर्थः । यत इन्धनं सिसञ्जयिषुर्मेलयितुमिच्छन्मेलयन्नित्यर्थः । एतदपि कुत इत्याह । यत इनाज्ञामनेकप्राइकसद्भावेनेन्धनं पश्चाद्दुर्लभं भविष्यत्यतोधुनैव त्वया संग्राह्यमित्थंरूपं प्रभुनिदेशमधीपिषन् स्मर्तुमिच्छन्स्मरन्नित्यर्थः । एवेन भृत्यस्यात्यन्तं स्वामिभक्तिरुक्ता ।। रूढारुष्टा । वपुष्ट्वम् । सूर्याचिष्टः । निष्टयानाम् । चतुष्टयम् । बहिष्टराम् । वपुष्टमाः । इत्यत्र “हस्वानामिनस्ति” [३४] इति षः ॥ ह्रस्वादिति किम् । सुदोस्त्वम् || नामिन इत्येव । सुतेजस्ता ॥ निष्टप्त । इत्यत्र “निस:" [३५] इत्यादिना पः ॥ अनासेवायामिति किम् । पुनः पुनः करणे मा भूत् । द्विषविस्तापिनः ॥ जक्षुः । ऊषुः । इत्यत्र " घस्वसः " [३६] इति षः ॥ सुष्वापयिषवः । तुष्टुषुः । इत्वत्र “णिस्तोरेवा" [३७] इत्यादिना षः ॥ स्वदादिपर्युदासः किम् | आसिस्वादयिषवः । सिस्वेदयिषु । प्रोत्सिसाहयिषुः ॥ स्तौतिसाहचर्यात्स्वदादिपर्युदासेन सदृशग्रहणाच व्यन्तानामपि षोपदेशानामेव ग्रहणम् । तथा च कृतत्वात्सकारस्य "नाम्यन्तस्था” [२. ३. १५] इत्यादिसूत्रेणैव सिद्धे नियमार्थं वचनम् । णिस्तोरेव पणि पत्वं माम्यस्य । तेनेह न १ ए सी हि षपि डी हि सुपुपि २ सी बेनन्ध ३ वी 'त्यन्तस्वा. ४ ए सी ग्रामिनस्ति.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy