________________
२७७
[है• २.३.३३.] तृतीयः सर्गः ।
२७७ अथासर्गसमाप्ति सैन्यावासनां वर्णयति ।
सैनिकानां श्रमं जक्षुः सुष्वापयिषवो नु तान् । सिखेदयिष्विनांशूनासिस्वादयिषवो द्रुमाः ॥११८॥ ११८. द्रुमा: सैनिकानां श्रमं मार्गखेदं जक्षुरभक्षयनपनिन्युरि. त्यर्थः । किंभूताः सन्तः । सिस्वेदयिषवोत्युष्णत्वेन प्रस्वेदयितुमिच्छवो य इनांशवो रविकिरणास्तानासिस्वादयिषवः सान्द्रपत्रप्रकरेण भक्षयितुमिच्छवोपनयन्त इत्यर्थः । अत एव तान्सैनिकान्सुष्वापयिषवो नु शाययितुमिच्छद इव । ये हि सुष्वापयिषवो भृत्याः स्युस्तेपि पटकुटीबन्धनेन छायाकरणाद्रविकिरणानिवारयन्तो मार्गश्रममपनयन्ति ॥
तुष्टषुर्वीचिनादैः किं प्रोत्सिसाहयिषुः किमु ।
वपुः सिसिक्षतो नागात्रयम्भोभिरसीषिचत् ॥ ११९ ।। ११९. अङ्गं सिसिक्षत: सिनपयिषूनागानम्भोभिः कर्तृभिनयसीषिचदनपयत् । कीहक्सती । वीचिनादैः कृत्वा किं तुष्ट्रंषुः किं नागास्तोतुमिच्छन्ती स्तुवैतीवेत्यर्थः । किमु किं वा प्रोत्सिसाहयिषुः श्रान्तसन्तप्तत्वात्स्नानार्थ प्रोत्सहमानानागान्प्रयोक्तुमिच्छु: प्रोत्साहयन्तीवेत्यर्थः । जान्यादिरपि हि स्तुवती प्रोत्साहयन्ती च बालकान्लपयति ।।
सुषुप्सन्तं न तुष्टाव कंचित्कोपीत्यतर्जयत् ।
किं सोषुपिषमाणे त्वं व्यतिमुषुपिषे प्रभौ ॥ १२० ॥ १२०. सुषुप्सन्तं शयितुमिच्छन्तं स्वपन्तमित्यर्थः । कंचिद्भत्यं कोपि भृत्यो न तुष्टाव किंत्वतर्जयत् । कथमित्याह । प्रभो स्वामिनि सोषुपिषमाणेत्यर्थ स्वप्नुमिच्छति किं त्वं व्यतिसुषुपिषे प्रभुसंबन्धि
१डी टूवुः किं. २ °सी न्ती स्तुंव. ३ बी डी वन्तीवे. ४ बी सी डी बन्ती प्रो.५ सी कि तु त'. ६ सी किं तु व्य. ७५ सी डी बन्धेस्था',