________________
२७४
द्याश्रयमहाकाव्ये
[ मूलराज: ]
कान । परमे पढ़े तिष्ठन्ति परमेष्ठा दिवि स्वर्गे तिष्ठन्ति दिविष्ठा द्वन्द्वे परमेष्ठदिविष्ठा रामचन्द्रादयस्तेषामाजीन् रणान् ॥
दुःषेध निष्ठमाञ्जिष्टदृष्टीन्बर्हिष्ठपाणयः ।
परिकारा अकुष्ठाङ्गा गजान्निन्युः सुषेधताम् ।। ११३ ।।
१
११३. परिकारा हस्तिपरिचारका गजान्सुषेधतां प्रशस्तगतितां निन्युः । यतो दुष्टः सेधो गतिर्येषां ते दुःषेधास्तथानौ तिष्ठन्त्यग्निष्ठा मौ शब्दे तिष्ठति मञ्जिष्ठा तया रक्ता माजिष्ठी अग्निष्ठानामिव माजिष्ठी आरक्ता दृष्टिर्येषां ते तथा । ततो विशेषणकर्मधारयः । तान्मदोद्भेदाद्दुष्टगतीनारक्ताक्षांश्च । किंभूताः सन्तः । अश्वारूढत्वेनाकुष्ठमभूमिष्टमङ्गं येषां ते । यद्वा । पादचारिणोपि हस्तिवेगगामित्वात्फालप्रदानैराकाशस्था इव तथा बर्हिः ष्ठपाणयः पिच्छिकाहस्ताः । परिकारा हि पिच्छिकाहस्ता द्विधा हस्तिवेगजैत्राश्वारूढा हस्तिवेगजैत्रा: पादचारिणश्च । त उभयेपि गजायगा मदोद्रेकेण शीघ्रगं गजं पिञ्छिकाभीक्ष्णाच्छोटनैः खेदयित्वा मदं चोपशमय्य स्वभावगतिं नयन्तीति
५
स्थितिः ।।
स्थपुटेष्वप्यनिःषेधैरदुःपन्धिपदैर्हयैः ।
रथाः सुषंधयो यान्तो निःषंधय इवाबभ्रुः ॥ ११४ ॥
११४. रथा निःषंधय इव संधिरहिता इवाबभुः । यतः मुषंघयः सुष्टिसंधानाः । तथा हयैः कृत्वा यान्तः । किंभूतैः । अदुःषंधीनि गुल्फप्रदेशे दुष्टसंधानरहितानि पदानि पादा येषां तैः । एतेन सुलक्षणत्वोक्तिः ।
E.
१ बी डी हि : B.
१ बी सी 'रिवार' 'रूढास्तेना'
२ बी दुप
२ बी 'गति नि. ३ सी 'ततो त° ४ ए सी डी
५ सी हिंड'. ६ ए सी डी नि ये.