________________
तृतीयः सर्गः ।
द्विष्ठत्रिष्ठेष्व पुगष्ठेष्षाम्बच्याम्बष्ठताजुषः । पयोशङ्कुष्टकाङ्गुं भूमिष्ठाष्टपत्तयः ।। १११ ॥
[ है० २.३.२९. ]
२७३
१११. भूमौ तिष्ठन्ति भूमिष्ठा अप मार्ग परिहृत्य तिष्ठन्त्यपष्ठाश्च ये पत्तयस्ते गोष्ठेषु गोकुलेषु पयो दुग्धमपुः पिबन्ति स्म । कथम् । शङ्कौ शल्यास्त्रे तिष्ठन्ति शङ्कुष्ठा अज्ञाताः शङ्कुष्ठाः शङ्कुष्ठका न तथाशङ्कुष्ठकाः पयःपानव्यापृतत्वेनाप्रहरणा अङ्गीववयवे तिष्ठन्त्यङ्गुष्ठा अङ्गुल्यो यत्र पाने तत् । किंभूतेषु गोष्ठेषु । द्विष्ठत्रिष्ठेषु द्वयोः स्थानयोस्त्रिषु वा स्थानेषु तिष्ठत्सु । किंभूता: पत्तयः । अम्बायां मातरि तिष्ठन्ति "ड्यापो बहुलं नान्नि” [ २.४.९९] इति दस्खे अम्बष्ठो मातृमुखः । तस्य भावः व्यणि आम्बष्ठयं तस्याम्बष्ठता । अम्बोपह्नवकर्ता तस्यायं कार्यभूतः अणि आम्बोपह्नवरूपो धर्मस्तत्र तिष्ठति " स्थाप" [ ५. १. १४१ ] इत्यादिना के आम्बष्ठस्तस्य भावोपह्नवस्तां जुषन्ते सेवन्ते ये ते धनुर्विद्यादिकलाकुशला इत्यर्थः ॥
अनम्बाष्ठा असभ्यष्ठकुन्तशेकुष्ठपाणयः ।
परमेष्ठदिविष्ठा जीन्पुञ्जिष्ठाः पथ्यकीर्तयन् ।। ११२ ॥
११२. अनम्बाष्ठा अमातृमुखाः शस्त्रविद्यानिपुणा असव्यष्ठो दक्षिणपार्श्वधः कुन्तः प्रासो येषां तेसव्यष्ठकुन्ताः शेकुः पक्षिविशेषस्तत्प्रकृतिध्वजोप्यभेदात् शेकुः । “न नृपूजार्थ” [७.१.१०८ ] इत्यादिना काभावः । तत्रस्थः पाणिर्येषां ते शेकुष्ठपाणयः । वामपादेमोचकमध्यस्थान् महाभटत्वसूचकान् शेकादिजन्तूपलक्षितान्ध्वजान्वामहस्तेनावष्टभ्रन्त इत्यर्थः । विशेषणकर्मधारये सव्यष्ठ कुन्तशेकुष्ठपाणयोश्वारोहसुभटाः पथि पुञ्जिष्ठाः समुदायस्थाः सन्तोकीर्तयन्नवर्णयन् ।
१ बी 'ङ्गावय° २ बी 'पु च स्था° ३ ए सी डी ' स्थापत्या ४ सी ● स्कु° ५ सी दमैौत्रक'.
३५