SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७२ व्याश्रयमहाकाव्ये [मूलराजः पुनर्वसुषेणः कषि पुनर्वसुषेणकः । यद्वा । पुनर्वसुषेणो मुख्योस्य "सोस्य मुख्यः" [७.१.१८८] इति के पुनर्वसुषेणकः सङ्घः । सह तेन वर्तते यः स शतभिषक्सेनो नृपः पार्श्वभूत् । एकस्मिन्पार्श्वे शतभिषक्सेनोपरस्मिंश्च पुनर्वसुषेणकोभूदित्यर्थः ॥ रोहिणिषणः रोहिणिसेन । इत्यत्र “भादितो वा" [२७] इति वा पः ॥ इत इति किम् । पुनर्वसुषेणकः । पूर्वेण नित्यमेव । शतभिषक्सेनः ॥ विष्ठलं कुष्ठलं क्रान्त्वा परिष्ठलकपिस्थले । उष्ट्राः शमिष्ठलं जग्मुः कृष्ट्वा रूढान् कपिष्ठलान् ॥११०॥ ११० उष्ट्राः शमिष्ठलं शमीनां स्थलं जग्मुः शमीतरुपत्रप्रियत्वात् । किं कृत्वा । क्रान्त्वोल्लह्य । कानि । विगतं वीनां वा पक्षिणां स्थळ विष्ठलं कुत्सितं कोर्वा पृथ्व्याः स्थलं कुष्ठलं परिगतमाम्रादिभिर्व्याप्तं स्थलं परिष्ठलं कपीनां स्थलं कपिस्थलं द्वन्द्वे ते च । तथा रूढांश्चटितान्कपिष्ठेलान् । कपिष्ठलो नाम गोत्रस्यायः प्रवर्वयिता यनानापत्यसंततिर्व्यपदिश्यते । उपचाराचदश्या अप्युच्यन्ते । तान् भटविशेपान्कृष्टवा बलादाकृष्य ॥ विष्लम् । कुशलम् । शमिष्ठलम् । परिठल । इत्यत्र "विकुशमि" [२०] इत्यादिना षः॥ कपिठलान् । इत्यत्र "कपेर्गोत्रे" [२९] इति पः ॥ गोत्र इति किम् । कपिस्थले ॥ १सीदा श. १५ सी टी वेण । रों'. २ सी बीमां वा. ३ सी 'हलो'. ४ बी पान् .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy