________________
[है• २.३.२६.] तृतीयः सर्गः ।
२७१ निभा मण्याल्यो हेमशङ्खादिमयमणिपतयो नृपं शशंसुस्तुष्टुवुरिव । इवोवसेयः । यतश्चलनेनान्योन्यं संसर्गादन्योन्येनैव च कर्ताभिनिस्तन्यन्ते शब्दाय्यन्तेभिनिस्तानाः । किमिति शशंसुरित्याह । यतो युधिष्ठिरगुणं न्यायादिगुणैर्युधिष्ठिरतुल्यम् ॥
गविष्ठिराभाः श्रीषेणहरिसिंहादयोब्रुडन् । विष्वक्सेनोग्रसेनोरुसेनेत्र कटकोदधौ ॥ १०८ ॥ १०८. गविष्ठिराभा न्यायादिना गविष्ठिरमुनिसमाः श्रीषेणहरिसिंहादयो राजानोत्र मूलराजीये कटकोदधावब्रुडन्नलक्ष्यी बभूवुः। यतो विष्वक्सेनो विष्णुरुप्रसेनः कंसपिता द्वन्द्वे तयोरिवोल्यों बृहत्यः सेनाः कटकविशेषा यत्र तस्मिन्नतिमात्रानेकनृपसेनालयत्वादत्यन्तं महाप्रमाण इत्यर्थः ॥
ममिनिष्टान । इत्ययम् "अमिनिष्टानः" [२५] इति निपात्यते ॥ मानीवेब । ममिनिस्तानाः॥ गविष्ठिर युधिष्ठिर । इत्यत्र "गवि" [२५] इत्यादिना पः॥ भीषण । इत्यत्र "एत्यकः" [२६] इति षः ॥ एतीति किम् । हरिसिंह ॥ मक इति किम् । विष्वक्सेन ॥ नानीस्येव । उरुसेने ॥ नाम्यन्तस्योकवर्गादिसेव । उग्रसेन ॥
अग्रे रोहिणिषेणोभूत्पश्चाद्रोहिणिसेनजः। पार्षे शतभिषक्सेनः स पुनर्वसुषेणकः ॥ १०९ ॥ १०९. स्पष्टः । किं तु रोहिणिषणादयो राजविशेषाः । तथाज्ञातः
१बी वोत्रावत्राव. २ सी 'लक्षी व. ३ सी निष्टाना. ४ ए डी सिंहः । म.५ सी स्थाव.