________________
२६६
व्याश्रयमहाकाव्ये
[ मूलराजः ]
धनुष्फलकयोग्याभिस्तत्रारुष्पाणयो बभ्रुः । सर्पिष्पाः सुभटा बर्हिष्खननैर्ब्राह्मणा इव ।। ९८ ॥
९८. सर्पिष्पा घृतपायिनोतिवलिष्ठा इत्यर्थः । सुभटा विशेषतो दानसन्मानपात्रत्वाद्वभुः । यतो धनुष्फलकयोश्चापस्फरयोर्या योग्या निरन्तराभ्यासास्ताभिः कृत्वारुणं पाणौ येषां ते धनुर्विद्यायां खड्गविद्यायां च कुशला इत्यर्थः । यथा सर्पिष्पा जातिस्वभावेनात्यन्तं घृतप्रियत्वाद् घृतपायिनो ब्राह्मणा भान्ति । यतो बर्हिष्खननैः पवित्रिकाद्यर्थं दर्भच्छेदनैररुष्पाणयो दर्भाणां तीक्ष्णाप्रत्वाद्रणितहस्ताः क्रियानैष्ठिका इत्यर्थः ॥
9
नृपो ज्योतिष्कमं छ्यद्भिश्छन्नश्छत्रैश्छदिष्फलैः । भ्रातुष्पुत्रं दैढक्कस्य कस्कोसेविष्ट नानुयान् ।। ९९ ॥
९९. कस्को नृपोनुयौननुव्रजन्सन् दैढक्कस्य दैढक्काख्यपितृव्यस्य भ्रातुष्पुत्रं भ्रातृजं मूलराजं नासेविष्ट । कीदृक् । छत्रैश्छन्नः सर्वतोप्यावृतो महर्द्धिक इत्यर्थः । कीदृशैः । छदिः पटलं तद्वदवनतप्रान्ततया सर्वतश्छायाकारितया च फलन्ति संपद्यन्ते यानि तैरछदिष्फलैरत एव ज्योतिष्क्कुमं सूर्यातपखेदं छयद्भिरपनयद्भिः । सर्वोपि नृपबर्गोमुं महयभजदित्यर्थः ॥ राजिबीजदैढक्कास्त्रयो भ्रातर आदिपुरुषाः । राजेरपत्यं मूलराजो बीजर्दढकयोस्तु भ्रातुष्पुत्रः ।।
१ बी 'दिप्पलैः.
२ बी दड क
१ डी पस्फुर". २ सी 'द'. ३ ए सी डी° यान् त्र ४ बी दडक • ५ बी दडका ६ सी दिष्पलै.. ७ बी दडका ८ बी 'दडक'.