SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [है० २.३.११.] तृतीयः सर्गः । २६५ द्धम् । कृतकृत्यमित्यर्थः । चक्षुर्लोचनं फलितं सफलमूहितं वितर्कितम् । किं कृत्वा उष्णगो रवेज्योंतिस्तेजः खर्वयल्लघयत्तस्य राज्ञो वपुः प्रेक्ष्य ॥ रोचिष्कवलयद्भानोर्हग्ज्योतिष्फल्गयन्नृणाम् । सर्वार्चिष्पिदधत्खेगाद्बहिः पाण्डुरयद्रजः ॥ ९६ ॥ I ९६. रजः सैन्यपाद्घातोत्था धूलिः खेगात् । कीदृक्सत् । बर्हिः । जातावेकवचनम् । दर्भान्पाण्डुरयत् । पृथ्वीस्थं वनगहनादि व्याप्नुवदित्यर्थः । तथोर्ध्व प्रसृमरत्वाद्धानो रोचि: किरणान्कवलयद्धसमानम् । तथातिनिबिडत्वात्सर्वेषां दीपादीनामर्चिः कान्तिः सर्वार्चिस्तत्पिदधदत एव नृणां दृग्ज्योतिर्लोचनदीप्तिं फल्गयन्निष्फलयश्च । रजोतिनिबिडं रोदसी व्यापेत्यर्थः ॥ रोचिष्कवलयत् । ज्योतिध्वर्वयत् । सर्वार्चिविदधत् । हग्ज्योतिष्फलायत् । आयुष्काम्यम् । जनुष्ख्यातम् । वपुष्प्रेक्ष्य । चक्षुष्फलितम् । इत्यत्र "वेस" [११] इत्यादिना वा षः ॥ पक्षे । बर्हिः पाण्डुरयत् इत्यादि ॥ अर्चि०पारश्वधं ज्योतियन्तं च रुरुचे तदा । तन्वदैन्द्रं धनुष्खण्डमीक्ष्यमाणं धनुष्करैः ।। ९७ ।। ९७. तदा मेघतुल्ये रजसि नभोव्यापिनि सतीत्यर्थः । पारश्वधं परशुशस्त्रसंबन्ध्यर्चिर्दीप्तिः कौन्तं प्राससंबन्धि ज्योतिश्च रुरुचे | कीदृशम् । स्वर्णमण्यादिखचितत्वेनोल्लसदनेकवर्णप्रभाजालत्वादैन्द्रं शक्रसंबन्धि धनुष्खण्डं तन्वदेत एवं धनुष्करैर्धानुष्कैरद्भुतधनुर्भ्रान्त्येक्ष्यमाणम् ॥ १ बी 'तिफ २ वी 'मीक्षमा'. १ बी'नं च फ. ૪ २ए दद. ३ सीडी व च ५.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy