________________
२६२
व्याश्रयमहाकाव्ये
[मूलराजः] गाः पयस्क क्षरन्सस्य स्वःकल्पायां पुरो भुवि । पयस्काम्यदधःकाम्यदवा:काम्यत्सुताभवत् ॥ ९ ॥ ९०. अस्य राज्ञो गच्छतः पुरः स्व:कल्पायां क्षीरतरुच्छायाहरिततृणशुचित्वादिगुणरम्यत्वेन स्वर्गतुल्यायां भुवि गौर्धेनुरभूत् । कीदृशी सती । पयस्काम्यन् क्षीरकण्ठत्वेन दुग्धामिलाषुकोत एवाधःकाम्यन् दुग्धपानायाधस्तनप्रदेशस्येच्छुरवा:काम्यन्नवप्रसूतत्वाजेलस्याप्यनिच्छुः सुतो वत्सो यस्याः सात एवापत्यस्नेहेन पयस्कमल्पं पयो दुग्धं भरन्ती सवन्ती । गन्तुकस्य हीदृग्गौः शकुनमतल्लिका ॥
यशस्कृते । श्रेयस्कामः । सहस्कंसः । पयस्कुम्भम् । अयस्कुशावान् । पयस्कर्णी । ऊर्जस्पात्रम् । इत्यत्र "अतःककमि" [4] इत्यादिना सः ॥ भत इति किम् । गी:कारः ॥ अनन्ययस्येति किम् । पुनःकारम् ॥
रोधस्पाशम् । यशस्कल्पः । पयस्कम् । इस्वत्र "प्रत्यये" [६] इति सः॥ अनम्ययस्येत्येव : स्व:कल्पायाम् ॥
पयस्काम्यत् । इत्यत्र "रोः काम्ये" [-] इति सः ॥ रोरिति किम् । अवाःकाम्यत् । अनव्ययस्वेत्येव । अध:काम्पत् ।
ज्योतिष्काम्यत्सु धूःकाम्यन् धनुष्कल्पभुवं स्त्रियम् ।
ससर्पिष्कामगीपाशां निष्कलकां स ऐक्षत ।। ९१॥ ९१. स राजा ज्योतिनिमिच्छन्ति ये तेषु ज्योतिष्काम्यत्सु धूःकाम्यन् धुरमिच्छन् शकुननिमित्तादिनेषु मध्ये धुरीणः सन् त्रियमैक्षत । कीदृशीम् । धनुष्कल्पे कुटिलत्वेन चापतुल्ये ध्रुवौ यस्यास्ताम् । १ सी पाशनि. १बी परस्य स्त. २डी जलं तस्या'. ३ ए सी डी स्व. ४बी °ध्येषु पु.