________________
[६० २.१.४.]
तृतीयः सर्गः ।
१६१
पुंस्करिणः । पुंस्खङ्गिभिः । पुंस्पाता । पुंस्फाल्गुनः । इत्यत्र "पुंस:" [३] इति सः ॥
शिरस्पदम् । अधस्पदम् । इत्यत्र “शिरोधसः" [४] इत्यादिना सः ॥ अथ राज्ञः प्रस्थानमेव श्लोकानामेकोनत्रिंशता वर्णयति । श्रेयस्कामः सहस्कंसोयस्कुशावान्यशस्कृते ।
यान्सोपश्यत्ययस्कुम्भं पयस्कर्णीशुभं पुरः ॥ ८८ ॥
८८. स राजा पयस्कुम्भं जलघटं पुरोपश्यत् । कीदृक्सन् । सहसो बलस्य कंसः पात्रमत एवायः प्रधाना कुशायस्कुशा । अत्र प्रस्तावादङ्कुशः । सास्यास्ति अयस्कुशावान्यशस्कृते शत्रुजयोत्थकीर्त्यर्थं यान् शत्रुं प्रति गच्छन्नत एव च श्रेयः कामयते अणि श्रेयस्कामः कुशलार्थी । किंभूतं कुम्भम् । पयश्च कर्णी च पयस्य ताभ्यां शुभमभनकर्णे जलपूर्ण चेत्यर्थ: । यात्रायां हि जलपूर्णस्य पूर्णकलशस्याप्रतो दर्शनं महाराकुनम् ॥
I
ऊर्जस्पात्रं पुनःकारं गीःकारः सव्यतोस्य गौः ।
यशस्कल्पो द्विदुर्गे रोधस्पाशं शशंस नु ॥ ८९ ॥
८९. गौः शण्डः सव्यतो राशो वामदेशे पुनर्वारंवारं कार: करणं यत्र तद्यथा स्यादेवं गिरं शब्दं करोतीति गीःकारः सन्नस्य राज्ञो द्विषद्दुर्गं प्राहारिदुर्गस्थानं रोधस्पाशं निन्द्यतटं शशंस नूवाचेव । यथाहं रोधस्पाशं सुखेन विक्षिपामि तथा त्वं द्विषद्दुर्ग विक्षेप्स्यसीति शब्दायमानः शण्डो वददिवेत्यर्थः । कीदृक् । ऊर्जस्पात्रं बलिष्ठस्तथेषदूनं यशो यशस्कल्पः । "वाद्यन्ते स्वार्थिकाः कचित्” इति क्लीवत्वाभावः । अविश्वेतत्वाद्यशस्तुल्यः । यात्रौयामीदृर्कं शण्डः शकुनराजः ॥
१ सी पुंस्पल्गु . २ ए सी डी 'स्कणौ ता. ३ बी 'लसस्या. ४ सी निन्द्यं ५ बी त्रायां हीदृ . ६ सी क् सण्ड .