________________
[१० २.२.१२१.] तृतीयः सर्गः।
२५५ यो हेतु जिनां हेषा यं हेतुं दन्तिनां मदः । हेतुनोक्ष्णां ध्वनिर्येनार्थाय यस्मै भटोद्यमः ॥ ७५ ॥ सोच्छासा भूयतो हेतोर्यस्य हेतोः सुखो मरुत् । तत्र हेतौ न दूरेण राज्ञो भावी जयो महान् ॥ ७६ ॥ ७५,७६. येन हेतुनाश्वादीनां हेषादयोभवंस्तेन हेतुना राज्ञो मूलराजस्य मूलराजाद्वा महान् जयो न दूरे भावी शीघ्रमेव भविष्यति । वाजिहेषादिभिर्यात्राविषयशुभचिकै विनो यात्राकार्यस्य विजयस्य नै. कट्यं सूचितमित्यर्थः ॥ संदानितकमिति युग्मस्य संज्ञा । यदुक्तम् । एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि ।।
अथ दूरेपि लोकस्यान्तिके नु तेजसा ज्वलन् ।
न दूराच्छ्रेयसां सिंहासनमध्यास्त भूपतिः ॥ ७७ ॥ ७७. अथ सैन्यसज्जनाद्यनन्तरं भूपतिः सिंहासनमध्यास्त । कीहक्सन् । श्रेयसां पुण्यानां मङ्गलकर्मणां वा न दूरान्निकटस्थ इत्यर्थः । अत एव लोकस्य दूरेपि राजसामन्तादिव्याप्तनिकटप्रदेशकत्वादनिकटेपि वर्तमानस्तेजसा प्रतापेन कान्त्या वा ज्वलन् सल्लोकस्यान्तिके नु समीप इव वर्तमानः । न दूराच्छ्रेयसामिति सिंहासनस्य वा विशेषणम् । सिंहासनसमीपे हि मुक्तास्वस्तिकादीनि माङ्गलिक्यानि कृ. तानि स्युः ॥
१सी हेषां ये. २५°षा ये हे'. ३ सी डीसा सूर्य. ४ पफ॥ ७६ ॥ युग्मम् । ५ सी रेवि लो'
१सी 'वितो या. २ एफ र्थः । युग्मम् ॥ सं. ३ सी न्त्या व ज्व. डी °न्त्या च ज्व.