________________
२५४
व्याश्रयमहाकाव्ये
[मूलराजः]
-
-
-
-
-
सुरूपा विभूषितालंकृतोः सधवाश्च युवतयो राजादिमङ्गल्यकर्मसु व्यामृता अभूवन्नित्यर्थः ॥
विना कौसुम्भम् । विना भूषणात् । विनाङ्गरागेण । इत्यत्र "विना" [११५] इत्यादिनों द्वितीयापञ्चमीतृतीयाः ॥
श्रिया तुल्याः । रतेस्तुल्याः । पनेन समैः । इन्दोः समैः । इत्यत्रं "तु. न्याथैः" [१६] इत्यादिना तृतीयापल्यौ ।
दत्ताः प्रासादं पूर्वेण गोपुरस्यापरेण च ।
प्राक्प्रयाणादुत्सवेन हेतुना कुकुमच्छटाः ॥ ७३ ॥ ७३. प्रयाणात्प्राक्प्रथममुत्सवेन हेतुना यात्रामहोत्सवार्थ कुकुमच्छटा दत्ताः कुङ्कमाम्बुना भूश्छटितेत्यर्थः । क। प्रासादं पूर्वण पूर्वाभिमुखाद्राजभवनात्पूर्वस्यामदूरवर्तिन्यां दिशि गोपुरस्य पूर्वदिगाभिमुखस्य पूर्वारस्यापरेण चापरस्यामदूरवर्तिन्यां दिशि च । प्रासादापेक्षया गोपुरस्य पूर्वत्वाद्गोपुरापेक्षया च प्रासादस्यापरत्वात्प्रासादादारभ्य गोपुर यावदित्यर्थः ॥
स्नेहाय हेतवे भक्तर्निमित्तान्मुदि कारणे ।
नरेन्द्रदर्शनस्यार्थस्योत्सुकोभून कस्तदा ॥ ७४ ॥ ७४. स्नेहाय हेतवे प्रेम्णा हेतुना भक्तनिमित्ताद्बहुमानेन हेतुना मुदि कारणे हर्षाद्धेतोयनरेन्द्रदर्शनं तस्यार्थस्य मूलराजदर्शनेन हेतुना तदा यात्रारम्भकाले क उत्सुको नाभून् ।
प्रासादं पूर्वेण । गोपुरस्यापरेण । इत्यत्र “द्वितीया " [११७] इत्यादिना द्वितीयाषच्यौ ॥ अनञ्चेरिति किम् । प्राक्प्रयाणात् ॥
सत्सवेन हेतुना । खेहाय हेतवे । भक्तर्निमित्तात् । दर्शनस्यार्थस्य । मुदि कारणे । इत्यत्र "हेत्वयः" [११८] इत्यादिना तृतीयाचा विमलयः ॥
१ डी ता अलं'. २ बी सी डी ताः सुध. ३ बी पृत्यभू. एफ् प्रत्याभू. ४प नाहिती . ५ ए त्रस्तुल्या.