________________
[है० २.१.११४.] तृतीयः सर्गः।
२५३ अधिको द्रोणः खार्योः । अधिको द्रोणः स्वार्याः । इत्यत्र "अधिकेन" [११] इत्यादिना सप्तमीपञ्चम्यौ ॥ अधिको द्रोणोधेन । इस्यत्र "तृतीयाल्पीयसः" [१२] इति तृतीया ॥
नाक्षतैश्चन्दनानाना न दनो दूर्वया पृथक् ।
न पुष्पेभ्यः फलं वार्ते पात्राणि दधिरेगनाः ॥ ७१ ॥ ७१. नानापृथक्शब्दावसहायाौँ । अङ्गनाः पात्राणि न दधिरे । कीशि । अक्षतैरखण्डतण्डुलैश्चन्दनाथ श्रीखण्डद्रवेण च नानासहायानि । तथा दनो दूर्वया च पृथगसहायानि । तथा पुष्पेभ्यः फलं च नालिकेरादि च ऋते विनाभूतानि । अक्षतचन्दनदधिदूर्वापुष्पफलो. पेवानि पात्राणि राजादिगृहेषु महेभ्यादिकुलाङ्गनाश्चन्दनवर्धनादिमाङ्गलिक्याय नयन्तीति स्थितिः ।।
पृथग्दनः । पृथग्दूर्वया । नाना चन्दनात् । नानाक्षतैः । इत्यत्र "पृथमाना" [११३] इत्यादिना पश्चमीतृतीये ॥
फलमृते । पुष्पेभ्य ऋते । इत्यत्र "ऋते द्वितीया च" [१४] इति द्वितीयापञ्चम्यौ ।
नासन्विनाङ्गरागेण कौसुम्भं भूषणोत्स्त्रियः। तुल्या रतेः श्रिया चेन्दोः पझेन च समैर्मुखैः ॥ ७२ ॥ ७२. इन्दोः पद्मेन च समैस्तुल्यैर्मुखैः कृत्वा रते: कामपन्याः श्रिया च विष्णुभार्यया तुल्याः खियो नासन् । कथम् । अङ्गरागेण कौसुम्भं कुसुम्भरक्तवस्त्रं च भूषणात्वर्णालंकाराच विना मङ्गल्यत्वात् । १ बी डी एफ °लं चर्ते. २ ए °णा लि. १ एफ °धिकद्रोणः खार्या . २ ए °णोधेन । ३ सी डी थग्दू.