________________
[ है० २.२.१०७.]
तृतीयः सर्गः ।
२५१
1
६७. यथा त्रयोदश्यास्तिथेः सकाशादह्नि दिने चतुर्दशीलक्षणे गत इति गम्यते । पर्व पूर्णिमा स्यात्तथेतः पत्तनाद्यो ग्रामो ग्रामस्थो लोकोष्टौ योजनान्यष्टसु योजनेषु गतेषु दशसु वा योजनेषु गतेष्वभूत्स ग्रामो यात्रां प्रयाणं द्रष्टुमाययौ । नानोत्सवादिना त्यद्भुतत्वाद्दूर देशस्थोपि लोकः कौतुकेन यात्रां द्रष्टुमागत इत्यर्थः ॥
इतो ग्रामो योजनान्यष्टौ । इतो ग्रामो योजनेषु दशसु । इत्यन्नं “ गते गम्ये" [१०७] इत्यादिनैकायै वा । पक्षे पूर्वेण सप्तमी ॥ अध्वन इति किम् | त्रयोदश्या अह्नि पर्व । अत्रैकार्थ्याभावे पूर्वेण नित्यं सप्तमी ॥
I
पौर्यो रूदत्सु बालेषु सीदतां गृहकर्मणाम् ।
एर्युर्द्रष्टुं नृपं श्रेष्ठं नृष्विन्द्रमिव नाकिनाम् ।। ६८ ।।
६८. बालेषु रुदत्सु मातृविरहेण रुदतो बालकान् सीदतां गृहकर्मणामप्रवर्तमानान् रन्धनादीन् गृहव्यापारांश्चानादृत्य पौर्षो नृपं द्रष्टुं कौतुकादेयुः । यतो नाकिनां मैध्य इन्द्रमिव नृषु मध्ये श्रेष्ठं रूपैश्वर्यादिगुणैरुत्कृष्टम् ॥
तदास्त्रिभ्यो वरा योधा रेजुर्यैः स्थानक स्थितैः ।
विद्धः क्रोशात्क्रोशयोर्वा म्रियेत क्षणयोः क्षणात् ॥ ६९ ॥
६९. तदा यात्रोपक्रमकालेस्लिभ्योत्रं धनुरस्त्येषां तेभ्यो वरा धनुधेरेषु श्रेष्ठों योधा रेजुः स्वावसरप्राप्तिसंभावनया तेजस्विनोभूवन् । यैर्योधैः स्थानकस्थितैरालीढादिस्थानावस्थितैः सद्भिः क्रोशाद्गव्यूतात्क्रो
१ प 'युद्रष्टुं. २ सी नृपश्रे.
१ सी यात्राप्र° २ सी 'त्र गम्ये.. एफ् णां प्र. ४ एफू मध्ये श्रे ५ एफ् डा रे. ६ए स्वावर.