________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
क्षणकस्य विघ्नाभावार्थमास्त निर्ध्वानं स्थिता । तथा मेर्या तूर्ये ष्वनन्त्यां वेणुरपि प्रेक्षणकमपि क्षणादास्त निरर्थकत्वात् । यात्रार्थमुद्यते हि नृप उत्सवार्थ पर्यायेण प्रेक्षणकं तूर्यवादनं च स्यात् । तथा द्विजेष्वासीनेषु द्रव्यप्राप्रिरहितेषु सूता भट्टाः स्वं द्रव्यमापुर्लेभिरे । एषु च सूतेcarसीनेषु द्विजाः स्वमापुः | यात्रार्थमुद्यतो हि राजा वीराय गुणोकीर्तभ्यां भट्टेभ्यो यशसे वेदपाठिभ्यो द्विजेभ्यश्च धर्मार्थ द्रव्यं ददति ||
२५०
स्वे । अध्यद्विषु क्ष्माभुजाम् ॥ ईशे । अधि चालुक्ये भृत्यानाम् । इत्यत्र "स्वंशेधिना [१०४] इति सप्तमी । अधिः स्वस्वामिसंबन्धं द्योतयति ॥ उपखाय द्रोणः । इत्यत्र “ उपेनाधिकिनि” [१०५ ] इति सप्तमी । उपोधिकाधिकिसंबन्धं द्योतयति ॥
बलेमिलत्यागाद् । इत्यत्र " यद्भावः [१०६ ] इत्यादिना सप्तमी ॥ यत्र क्रियार्हाणां कारकत्वं तद्विपर्ययो वा । यथा भेय ध्वनन्त्यां वेणुरास्त । द्विजेष्वासीनेषु स्वं सूता आपुः । यत्र च क्रियानहीणामकारकत्वं सद्विपर्ययो वा । यथा सूतंप्वासीनंषु द्विजाः स्वमापुः । वेणौ ध्वनति भेर्यास्त । तत्रापि भावो भावस्य लक्षणं भवतीत्यनेनैव सप्तमी । अत्र च वेण्यपेक्षयोदात्तध्वानत्वेन वाद्येषु मुख्यत्वेन च ध्वानक्रियार्हत्वाद्भेर्याः सूतापेक्षया तपश्चरणादिक्रियाप्रधानत्वेन दानक्रियाहेत्वाद्विजानां च क्रियार्हता । मेर्यपेक्षया वेणोर्द्विजापेक्षया सूतानां च ध्वानदानक्रियानत्वेन क्रियानर्हता ॥
ग्रामो यो योजनान्यष्टौ योजनेषु दशस्वितः ।
पवाहि त्रयोदश्या यात्रां द्रष्टुं स आययौ ॥ ६७ ॥
699
१ सी डी निध्वानं. २ सी डी वेणुवेणु. ३ एफ् भ्यो य'. ४ सी डी भ्य:
६. ५ बी ददाति ॥ ६ एफ् शे चौ. ७ बी °धिकानि.