________________
२४८
द्याश्रयमहाकाव्ये
[ मूलराज: ]
/
यकारि । शङ्कुर्हि च्छायामानानयनायातपवति समभूभागे स्थाप्यते । तेन च कालो मीयते । कालमानेन च लग्नं साध्यते । छायायां शङ्कुमादधुरित्यनेन यात्रालग्नदिनस्य रजोवगुण्डनाद्युत्पातरहितत्वेन श्रेष्ठत्वं सूचितम् ॥
स्वं प्रत्यसाधून्साधूंवागणयन्बेत्रिणां पतिः । साधू-स्वामिनि तत्कार्ये निपुणांश्चाग्रतो व्यधात् ॥ ६३ ॥
२
६३. वेत्रिणां पतिः प्रतीहारेश: स्वामिनि मूलराजे साधून्भक्तांस्तत्कार्ये स्वाम्यर्थे निपुणान्विधानचतुरानप्रतो मूलराजस्य पुरतो व्यधाचक्रे । कीदृक्सन् | अविस्वामिभक्तत्वात्स्वमात्मानं प्रत्यसाधूनभन् साधूंश्च भक्तानगणयन्नपरिभावयन् ॥
हसन्तो निपुणान्मातुः पितुः साधूंश्च शस्त्रिणः ।
प्रतीशं निपुणास्तस्थुः श्रेण्या द्वारेङ्गरक्षकाः ॥ ६४ ॥
६४. अङ्गरक्षकाः श्रेण्या पङ्कया द्वारे तस्थुः । किंभूताः सन्तः । ईशं स्वामिनं प्रति निपुणा रक्षाचतुर्रा अत एव मातुर्निपुणान्मात्रैब निपुणान्मन्यमानान्पितुः साधूंश्च पित्रैव साधून्मन्यमानान्भटान्हसन्तस्तथा शस्त्रिणः प्रहरणहस्ताः ॥
ज्योतिषेधीतिनः । इत्यत्र " व्याप्ये केनः " [ ९९ ] इति सप्तमी ॥ व्याप्य इति किम् | जन्माधीतिनो ज्योतिषे । भत्र जन्मनो मा भूत् ॥
छायायां शङ्कुमादधुः । इत्यत्र “तचुके हेतौ” [१००] इति सप्तमी ॥
१ एफ धूंश्व ग.
१ सी डी ने च° २ एफ् 'मिनम् ३ ए सी धून् भ. ४ एफू 'का
नग° ५ बी ॥ श्र° ६ ए रात° ७ डी 'तिष्य घी'
·