________________
२४६
व्याश्रयमहाकाव्ये
एयुकत्रे । इत्यन्त्र "सप्तमी" [१५] इत्यादिना सप्तमी ॥
मासे द्विराशितारः । इत्यन्न “न वा" [९६] इत्यादिना वा सप्तमी । पक्षे
शेषपष्ठी । मासो द्विरम्बुषाः ॥
[ मूलराज : ]
सौवस्तिकैः सन्मुहूर्त आयुक्तैस्तपसः श्रुते ।
मन्त्रे शान्तेश्च कुशलैश्चक्रे हस्त्यश्वपूजनम् ॥ ५९ ॥
५९. सौवस्तिकैः पुरोहितैः सन्मुहूर्ते शुभवेलायां हस्त्यश्वपूजनं शान्तये मत्रोच्चारपूर्वं पुष्पादिना चक्रे । किंभूतैः । तर्पेसस्तपश्चरण आयुक्तैस्तत्परैः । एतेन नैष्ठिकत्वोक्तिः । तथा श्रुत आगम आयुक्तैः । एतेन ज्ञानितोक्तिः । अत एव मन्त्रे कुशलैर्निपुणैरत एवं च शान्तेः शान्तिकर्मणि कुशलैश्च ॥
1
मन्त्रे कुशलैः । श्रुत आयुकैः । इत्यत्र “कुशल” [ ९७] इत्यादिनां वा सप्तमी ॥ पक्षे शेषषष्टी । शान्तेः कुशलैः । तपस आयुकैः ॥
स्वामिनो श्वेष्विभानां चानसां पचिषु चेश्वराः । लक्ष्म्यां क्षिवेश्चाधिपतेः सद्योद्वारं सिषेविरे ॥ ६० ॥
६०. अश्वेष्विभानां च स्वामिनोनसां रथानां पत्तिषु चेश्वराश्चतुरङ्गबलनायका लक्ष्म्यां राज्यश्रियः क्षितेश्चाधिपतेर्मूलराजस्य द्वारं सिंहद्वारं सद्यः सिषेविरे ॥
१ ए लक्ष्यां हिते .
२ ए
१ एफ् त्र । स ं. शेषे षष्ठी. ३ सी डी शातये. ४ एफू 'पस्त. ५ एफ् नित्नोति: । ६ बी व शा. ७ सी 'ना स. ८ एफ् शेषे षष्ठी. ९ वी राजश्रियां क्षि..