________________
है० २.१.८१.] तृतीयः सर्गः ।
२३९ पत्रवदाचरितम् । यतः शैलस्य गिरेरुपरि ऊर्ध्वदेशेधै ऊर्ध्वदेशापे. क्षयाधस्तादवस्तात्पश्चिमदिग्विभागे परस्ताच पूर्वदिग्भागे चोपलक्षण. त्वादक्षिणोत्तरभागयोरप्युत्पतिष्णुभिरुच्छलदिः । यथा दण्डोपरि स्थितं नीलवनेणोपर्यधश्चतुर्दिक्षु चावृतं नीलच्छत्रं राजादेरुपरि धृतं शोभातिशयाय स्यात्तथाद्रेः समन्तादुत्पतिष्णु शुकमण्डलं शरद इत्यर्थः । शरदि हि शुका बाहुल्येन स्युर्जातिप्रत्ययेन शैलाधुच्चस्थानेषु निबसन्ति च ॥
ध्रुवस्याभादक्षिणतो वातापेः सातुरुत्तरात् । पितां दुर्गतेस्त्यागेध्वा घोर्यानस्य साधकः ॥४६॥ ४६. पितॄणामध्वा पितृदण्डः स्वर्गदण्डाख्यो वत्सेति नामा ज्योतिषे प्रसिद्धोभात् । कीदृक् । पितृणामेव दुर्गतेस्तिर्यक्त्वादिकुगतेः श्रुतौ तु दन्दशूकत्वाख्यया प्रसिद्धायास्त्यागे सति चोः स्वर्गस्य कर्मणो यद्यानं गमनं तस्य कर्मणः साधको निष्पादकः । अनेन हि मार्गेण कृत्वा पितरो दुर्गात परिहत्य स्वर्ग यान्तीति प्रवादः । काभादित्याह । ध्रुवस्य दक्षिणतो दक्षिणस्यां दिशि तथा वातापेर्दैत्यस्य कर्मण: प्सातुर्भक्षकस्यागस्तेः । द्विजानुपद्रवन्वातापिर्दैत्यो ह्यगस्त्येन भक्षित इति प्रसिद्धिः । उत्तरादुत्तरस्यां दिशि । शरदि हि वत्सस्य व्योममध्यस्थस्य मुखं पूर्वस्यां पुच्छश्व पश्चिमायां स्यात् । यदुक्तम् । कन्यासंक्रान्त्यादित्रितयं पूर्वादौ वत्स इति । तत्रस्थश्च ध्रुवापेक्षया दक्षिणस्यामगस्त्यापेक्षया चोत्तरस्यां स्यात् ।।
निद्रा योत्यक्तपूय॑न्दैगर्जकैः साध्वपा पिवैः।
स तामत्यजदम्भोधौ कैटभस्य मधु द्विषन् ॥४७॥ ४७. सोम्भोधौ तिष्ठन् कैटभस्य मधुं द्विषन् कैटममधुदैत्ययोः शत्रुर्वि१५सी से 'भस्ता. २ एक दिग्विमागे. ३ सीरी त्या स्यात् ।।