________________
२३८
स्याश्रयमहाकाव्ये
[मूलराजः]
लान्ताः कृच्छ्रेण तापेन ज्योत्स्नायाः पामजानत ।
वीचिहादैस्ततोजानंश्चकोराः सरसां पयः ॥ ४४ ॥ ४४. कृच्छ्रेण कष्टकारिणा तापेन सूर्यातपेन क्लान्ताः संतप्ताः सन्तश्वकोग: प्राक् सरसां पयो जलं स्वच्छत्वेन ज्योत्स्नाया अजानत ज्योसाबुद्ध्या प्रवृत्ता इत्यर्थः । प्रवृत्तिरत्र जानातेरर्थः । यद्वा ज्योत्स्नाप्रियत्वाग्ज्योत्स्नायामत्यन्तरक्ताश्चित्तभ्रान्त्या सरःपयो ज्योत्स्नारूपेण प्रत्यपद्यन्तेत्यर्थः । मिध्याज्ञानवचनोत्र जानातिर्मिध्याज्ञानं चाज्ञानमेव । तत: पश्चाद्वीचिहादैः कल्लोलध्वानैः कृत्वा सरसां पयः सरसां पय एवाजानन् । सरसां पय इत्यनूद्यत्वेन विधेयत्वेन च योज्यम् ।।
स्तोकात् स्पृशन् स्तोकेन स्पृशन् । अल्पास्पृशन् अल्पेन वान् । कृच्छ्रात्सेहे कृच्छ्रेण वीक्ष्यत्वात् । कतिपयाद्रीष्मः कतिपयेन प्रावृट् । इत्यत्र "स्तोकाल्प" [७९] इत्यादिना वा पत्रमी ॥ असत्व इति किम् । स्तोकैर्गजितैः । अल्पैर्मेधैः । कृच्छ्रेण तापेन ॥
ज्योत्साया अजानत । इस्यत्र "अज्ञाने शः षष्ठी" [४०] इति षष्ठी ॥ म. हान इति किम् । हादैः पयोजानन् । सरसां पयः । इत्यत्र “शेषे" [1] इति षष्ठी ।
शैलस्योपर्यघोवस्तात्परस्तादुत्पतिष्णुभिः । उपरिष्टाच्छरलक्ष्म्या नीलच्छवायितं शुकैः ॥ ४५ ॥ ४५. शुकैः शरलक्ष्म्या उपरिष्टादूर्ध्वदेशे नीलच्छवायितं नीलात१ सी डी लक्ष्मीनी. १९ इत्या. २ सी तेर्षः ।. ३ सी लाया. ४ एपफ न् मन्में. ५५ न् । मा.