________________
[है ० २.२.७८.] तृतीयः सर्गः।
४१. अलि: सौरभादनुरागेण मुदा बद्धः सौरभहेतुको योनुरागस्तद्धेतुका या मुद्धर्षस्तया हेतुना बद्धो व्याप्तः सन् कुमुदस्याब्जाच पद्यस्य चान्तिकेभ्रमत् । तथा नीपस्य कदम्बस्य केतकात्केतकीपुपाच दूरेभ्रमत् । नीपपुष्पस्य किंचित्तीक्ष्णपत्रत्वेन केतकस्य च कण्टकित्वेन नैकट्येन भ्रमणेङ्गविदारणभयात् । शरदि हि कैरवाण्यजानि च नवान्युद्भिद्यन्ते कदम्बानि केतकानि च वर्षोद्भवान्यपि शरद्यनुवर्तन्ते वर्ण्यन्ते च कविभिः । अथ वा शरद्यतीतप्रायरामणीयकत्वेन नीपकेतकयोरनुपभोग्यत्वाइरेलिरभ्रमत् ।।
सौरभादनुरागेण । इत्यत्र "गुणाद्" [७] इत्यादिना वा पञ्चमी ॥ भनियामिति किम् ॥ मुदा बदः ।
केतका रे नीपस्य दूरे । भखादन्तिके कुमुदस्यान्तिके । इत्यत्र "आरादयः" [७८] इति वा पबमी॥ स्तोकाजातीः स्पृशन् स्तोकेनाब्जान्यल्पाच शीकरान् । अल्पेन वानपि मरुत्कृच्छात्सेहे वियोगिभिः॥ ४२ ॥
४२. सुगमः । नवरं स्तोकाजातीर्जातिपुष्पाणि स्तोकेनाब्जानि च स्पृशन् । शरदि हि जातिपुष्पाणि स्युः ।।
कृच्छ्रेणार्कस्य वीक्ष्यत्वादीष्मः कतिपयाच्छरत् । प्रातिपयेनाल्पैर्मेधैः स्तोकैश्च गर्जितैः ॥ ४३ ॥ ४३. कृच्छेणार्कस्य वीक्ष्यत्वाद्रष्टुं शक्यत्वाच्छरत्कालः कतिपयास्तोकेन ग्रीष्मोभूत्तथाल्पैर्मेधैः स्तोकैर्जितैश्च कृत्वा कतिपयेन प्रांवृडभूत् ॥
१ ए बी पुप्फाच्च. २ बी पुष्फस्य. ३ सी डी अथो वा. ४ ए सीडी 'ना प. ५ एफ २ । . ६ सी डी रा3:. ७बी नि पुष्पानि च. ८ ए बी पुप्फाणि. ९ सीरीत्वाच्छ'. १०५ प्राई'.