________________
२३२ व्याश्रयमहाकाव्ये
[ मूलराजः] ३३. केल्यै क्रीडायायलं समर्थास्तथा श्रियै शोमायै प्रस्तावाच्छरद एव शक्ता हंसास्तस्याः शरदो यद्यस्मादन्वयुरनुगमनं चक्रुस्तकि शरदा का सहस्राय रूपकादिदशशतेनायुतेन वा रूपकादिदशसहल्या वा कृत्वा परिक्रीता नियतकालं स्वीकृताः। ये हि येन परिक्रीताः स्युस्ते सेवकास्तस्य स्वामिनः केल्यायलं नर्मणे शक्ताः श्रियै शोभायै शक्ताश्च सन्तोनुगच्छन्ति ।
खधा पितृभ्य इन्द्राय वषट् स्वाहा हविर्भुजे । नमो देवेभ्य इत्य॒खिग्वाचः सस्यश्रियाफलन् ॥ ३४ ॥ ३४. ऋत्विग्वाचो मेघवृष्टिसस्यनिष्पत्त्याद्यर्थ पूर्वकृतकारीरीष्ट्यादीनां प्रस्तावे यायजूकानां मत्राक्षरोचारणानि सस्यश्रिया प्रचुरधान्यनिष्पत्त्याफलन् सार्थका आसन् । का वाच इत्याह । पितृभ्यः स्वधा हविर्दानमस्तु । तथेन्द्राय वषट् हविर्दानमस्तु । तथा हविर्भुजे. मिदेवतायै स्वाहा हविनमस्तु । तथा देवेभ्यो नमोस्त्विति ॥
प्रजाभ्यः वस्त्यभूनिद्रा समुद्रशयनाद्ययौ ।
आ सिन्धोः शाहलान्यासनश्मरात्पर्यपोषरात् ॥ ३५ ॥ ३५. प्रजाभ्यः स्वस्ति सस्यादिसंपत्त्या लोकस्य क्षेममभूत् । तथा समुद्रशयनाद्विष्णोनिद्रा ययौ । कार्तिकैकादश्यां हि विष्णुर्निद्रां जहातीति रूढिः । तथा आ सिन्धोः समुद्रं मर्यादीकृत्य नदीममिव्याप्य वा शादलानि सहरितभूखण्डान्युपचाराद्धरितानि चासन् । कथम् । अश्मरात्परि अश्मवन्तं देशं वर्जयित्वा तथोषरादपे रिरिणं (इरिणं) देश वर्जयित्वा ॥ १बी शाडूला'. २ ए षणात् ।। १ एफ मिनं कल्यायलं निर्मणे. २ सीसी रोष्टया. ३ वी शाङ्कला'. ४ सी न्तं तदेही न्तं ३.५ पफ परिणं.