________________
[१. २.२.६५] तृतीयः सर्गः ।
२२९ न सं शुनेमन्यन्त न स्वं बुसममन्यन्त । इत्यत्र “मन्यस्य" [१४] इत्यादिना वा चतुर्थी ॥ अनावादिभ्य इति किम् । न वृष नावमनं भुकं शुगालं काकं वा मेनिरे ॥ कुत्स्यतेनेनेति करणाश्रयणं किम् । न वं शुने मेनिरे इत्यत्र स्वशब्दाच स्यात् ॥ अतिग्रहणं किम् । महिषं तृणं मेनिरे । अत्र नम्प्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुल्सी । कुरसामात्रेपीच्छन्स्येके। महिषं शुने मेनिरे । न स्वं तृणस्य मन्तेति कृयोगे परत्वात्षष्ठी । चतुर्थ्यपीति कश्चित् । न स्वं बुसाय मन्ता । न स्वं तृणस्य मन्ता ॥
पृश्यै हितः घोहितः । पृथ्व्यै सुखः चोः सुखः । इत्यत्र “हितसुखाभ्याम्" [६५] इति वा चतुर्थी ॥
शं पथ्यं भद्रमायुष्यं स्तारक्षेमोर्थश्व सिध्यतु ।
राज्ञः प्रजाभ्य इत्यूचेगस्तिरुयन्धनखनैः ॥ ३१॥ ३१. अगस्तिरगस्यैर्षिरुद्यन्सन्धनस्वनैर्मेघगर्जितैः कृत्वोच इव । इवोत्रावसीयते । किमित्याह । राज्ञः प्रजाभ्यश्च शं सुखं पध्यं हिवं भद्रं धनधान्यादिसंपल्लाभ आयुः प्रयोजनमस्य "स्वर्गस्वस्ति"[६.४.१२२] इत्यादिना ये आयुष्यमायुर्वृद्धिहेतुर्वस्तु क्षेमो विपदभावश्च स्तादर्थश्च सिध्यतु कार्य निष्पद्यतां चेति । शरदि हगस्तिरदेति घनगर्जितानि च स्युरित्येवमुत्प्रेक्षा । मुनिमुद्यस्तपोज्ञानादिविशेषेणोदीयमानो राजादिसमीपं गच्छन् घनखनैः सान्द्रध्वानैः कृत्वा राक्षः प्रजाभ्यश्च शमित्याद्याशीर्वादं वति ॥
१ एफ सामत्रे. २ एफ तः पृ. ३ सी 'स्त्य ऋषिरु. ४ एफ क्षेम वि. ५ सी प्रेक्ष्य मु.डी प्रेक्ष्यते मु. ६ ए पाने क.