________________
२२८ द्याश्रयमहाकाव्ये
[मूलराजः] रमादिभ्योपि निकृष्टमज्ञासिषुः । महिषं तु वृषादलिष्ठत्वेन शुने तृणं वा मेनिरे । यतः पयःपानोन्मंदा: क्षीरपाणोन्मत्ताः ॥
न तृणस्य बुसाय स्वं मन्तेवाशुष्यदम्बुदः । सुखो हितोपि पृथ्व्यै चोर्यदमीणान चातकम् ॥ ३० ॥ ३०. तृणबुससकाशादपि स्वमकिंचित्करं मन्यमान इवाम्बुदोशुष्यनिर्जलोभूत् । यद्यस्माद्धेतोरम्बुदश्चातकं नापीणान्न तृप्तीचके । कीटक् । पृथ्व्यै सस्यायुत्पत्तिहेतुत्वाधोः स्वर्गस्य चानेकसस्यौषध्यादियज्ञोपकरणोत्पत्तिहेतुत्वात्सुखोपि । अपिरत्रापि योज्यः । सुखकार्यपि हितोप्यनुकूलोपि च । योप्यम्बुदै उन्नतो महापुरुषः स पृथ्व्याः वर्गस्य च परोपकारित्वातिधार्मिकत्वादिभिर्गुणैः सुखोपि हितोपि च सन् यदा चतते याचते णके चातकं याचकं केनाप्यसामध्येन न प्रीणाति तदा तृणबुसाभ्यामप्यात्मानमकिंचित्करं मन्यमानः सञ् शुष्यति खिद्यत इत्युक्तिः ॥ पाकाय प्रयताः । इत्यत्र "मोर्थे" [0] इत्यादिना चतुर्थी ॥ नीवारेभ्यो जग्मुः । इस्यत्र "गम्मखाप्ये" [१२] इति चतुर्थी ॥
प्रामं नेयुः पुराय नेयुः । इत्यत्र “गते:०" [१३] इत्यादिना वा चतुर्थी । अनाप्त इति किम् । अध्वानं यान्तः ॥ कृयोगे तु परत्वात्षध्येव । स्वातेर्गन्तुः ॥ द्वितीयवेत्यन्ये । चित्रां गन्तुः ॥ चतुर्थी अत्यन्ये । विशाखायै गन्तुः ॥
१बी न्ते चा.
१ सी महाः क्षी. २ बी एफ द इवाम्बुद उ. ३ एफ रित्वेनाति'. ४ वी मर्थेन. ५५ वी तुमर्थे. ६ सी डी तुध्यैवेत्य. ७ ए खाये ग.