SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २२७ [६० २.२.६०.] तृतीयः सर्गः । लेभ्यः" [६.३.८०] इतीकणि तस्य लुपि चतुर्मासः स चासावुपवासश्च तस्मिन्नपि चतुरो मासानभुक्त्वापीत्यर्थः । प्रामं पुराय वा नेयुः पारणे प्रधानभिक्षालाभाद्यर्थ न गताः । एतेनातिनैष्ठिकत्वोक्तिः । महातापसा हि केचिद्देवस्वपनैकादश्या आरभ्य देवोत्थानकादशी यावञ्चतुरो वर्षामासानुपवासान्कुर्वन्ति । तत्पारणेपि वनस्थितैरेवारण्यकधान्यैः शिलोच्छवृत्त्यानीतैः स्वयंपक्कैः प्राणयात्रां कुर्वन्ति न तु प्रधानभिक्षालाभाद्यर्थ ग्रामपुरादि वसत्स्थानमागच्छन्तीत्येषां धर्मः ॥ चित्रां खातेर्विशाखायै गन्तुर्भानोस्त्विषार्दिताः । यान्तोवानममन्यन्त न शुने खं न वा बुसम् ॥ २८ ॥ २८. अध्वानं मार्ग यान्तोध्वगाः पान्थाः स्वमात्मानं शुने कुर्कुराय नामन्यन्तात्यन्तं कष्टाधारत्वेन शुनोप्यात्मानं निकृष्टं मेनिरे । न वा बुसं यद्वाकिंचित्करत्वादात्मानं पलालादप्यसारं मेनिरे । यतश्चित्रां गन्तुः स्वातेर्गन्तुर्विशाखायै गन्तुः । चित्रास्वातिविशाखानक्षत्रैः संयुज्यमानस्य सत इत्यर्थः । भानो रवेस्त्विषातपेनार्दिता अत्युष्णत्वात्पीडिताः । शरदि हि रविश्चित्रास्वातिविशाखाभिरवश्यं युज्यते तद्युक्तश्च प्रायोत्युष्णद्युतिः स्यात् ।। नाभं नावं शुकं का शृगालं मेनिरे वृषम् । पयःपानोन्मदा गोपा महिषं तु शुने तृणम् ॥ २९ ॥ २९. गोपा गोपाला वृष जावावेकवचनम् । शण्डाननं नावं सुकं काकं शृगालं वा न मेनिरे । निःसत्त्ववानायासस्ववश्यताकरणादिभि १ सीडी का; . १ एफ छिकोकिः ।।
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy