________________
२२६ व्याश्रयमहाकाव्ये
[मूलराजः] स्मेति सर्वक्रियासे योज्यम् । श्लाघास्थानशपथापहवान् कुर्वाणं बैणं कर्तृ आत्मानं ज्ञाप्यं जानन्तं पति प्रयोजयति स्मेत्यर्थः । पत्य इत्यत्र जातावेकवचनम् । इदमुक्तं स्यात् । पतीनपराधकत्वेन चाटुकशतै. रनुनयतोप्यवगणय्य मानावष्टम्भेनावस्थिता अपि शारदज्योत्स्नोदये कामोद्रेकाद्विगलितमानाः सत्यो नार्यः । साघया वक्रोक्तिभङ्गीभिः स्वप्रशंसया स्थित्यानुरागादिसूचकस्थानविशेषेण शपथेन सपत्न्युद्भावितस्य मिध्यारूपस्य व्यलीकस्य निरासेन सपन्युद्भावितं पतिभिः संभाव्यमानं व्यलीकं यद्यस्मासु कुत्राप्यस्ति तदा वयं मात्रादिशरीरं स्पृशाम इति प्रत्यायकवाक्येन वा निहवेन च प्राग्मानवशेन कृतस्यावज्ञाद्यपराधस्यापेलापेन चात्यन्तिकानुरागभक्तिरिरंसुतादिगुणोपेतं ज्ञाप्यमात्मानं पतीन् शापितवत्यः ॥
तापाय लोहिनी तडित् । इत्यत्र "उत्पातेन ज्ञाप्ये" [५९] इति चतुर्थी । पत्ये श्लाघते । हुते। तिष्ठते । शपते । इत्यत्र "श्लाघलुस्था" [६०] इत्या. दिना चतुर्थी ॥
पाकाय प्रयता जम्मुर्नीवारेभ्यस्तपस्विनः ।
चतुर्मासोपवासेपि नेयुमं पुराय वा ॥ २७ ॥ २७. पाकाय प्रयताः पक्तुमुद्यताः सन्तस्तपस्विनस्तापसा नीवारेभ्यो वनवीहीनाहतु ययुः । एतेनैषां स्वयंपाकित्वमसंग्रहश्वोक्ते । शरदि हि नीवारा बाहुल्येन स्युः । परं चतुर्ष मासेषु भवो "वर्षाका
१ ए बी पश्विनः ।. २ ए 'युग्राम.
१ए सु युज्यते श्ला. २ सी मुक्ते स्या'. ३ सी रदाज्यो'. ४ सी डी "वितं. ५ पफ पलपे'. ६ बी पश्विन. ७सी श्वोक्तेः श. डी एफ धोक्तः श.