________________
२१४ व्याश्रयमहाकाव्ये
[मूलराजः] उक्तम् । इन्दमहो आसो य पुन्निमाए हवइचि ॥ भविष्योत्तरपुराणेपि शारदमहोत्सववर्णनावसर उक्तम् ॥
श्रवणादिभरण्यन्तं दिनानामष्टकं नृपः ।
शुभार्य सर्वलोकानां कुर्यादिन्द्रमहोत्संवम् ॥ १ ॥ श्रवणभरणीनक्षत्रे पाश्विनश्वेताष्टमीपूर्णिमोद्देश एव चन्द्रण युज्यते। अत एवाश्विनपूर्णिमाया आश्वयुजीति नाम । स चेन्द्रोत्सव: प्रचुरधान्यनिष्पत्त्याचर्य क्रियते । तयाँ च वराहमिहरसंहितायामैन्द्रं वचः ।
येषु देशेषु मनुजा भक्तिभारपुरःसराः । जनयिष्यन्ति वर्षान्ते मया दत्तं महाध्वजम् ॥ १ ॥ तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः । प्रभूताना धर्मयुक्ता वृष्टमेघा महोत्सवाः ॥ २ ॥
भविष्यन्ति मुवेषाश्च सुभाषाश्च सुभूषणाः ॥ इत्यादि । मित्रासावरैर्वाचा निपुणैः सह गोकुले । ।
गुडन मिश्रं वषेण श्लक्ष्णा गोपाः पयः पपुः ॥९॥ ९. स्पष्टः । किंतु वेषेण लक्ष्णा: सूक्ष्मा अर्कशा वा गोकुलस्वा. मित्वाच्छरद उष्णत्वाञ्च परिहितसूक्ष्ममृदुवसा इत्यर्थः । गोपा गोष्ठाधिकृता मासा मासनावरैलघुभिरात्मसमानैरित्यर्थः । शरदि हि पित्तोद्रेक: स्यादितीक्षुविकारमिश्रपयःपानश्वेतसूक्ष्मांशुकपरिघानादिशैत्यक्रिया पध्यत्वाद्विधया । उक्तं च ।
शरत्काले स्फुरत्तेजःपुजस्यास्य रश्मिभिः । तप्तानां कुप्यति प्रायः प्राणिनां पित्तमुल्बणमें ॥ १ ॥ ततश्च शालीन्दुरुग्घनाम्बुनि श्वेतसूक्ष्मांशुकानि च ।
क्षीरमिक्षुविकाराश्च सेव्याः शरदि भूरिशः ॥ २ ॥ १एफ 'त्सवः । श्र. ० एस्तवप्र. ३एफ याव. ४ए ‘हरिसं'. ५ वीणाः शूक्ष्मा. ६ वी तसुशूक्ष्म एफ तसूक्ष्माव. ७ एम् । शा. ८ ए तशूक्ष्मां.