________________
[है० २.२.४२.] तृतीयः सर्गः।
२१३ विजयदशम्यां कुम्भमुत्पाट्य तेभ्यः स्थानेभ्यो राजादिभवनमागत्य रानादिमहायजमानान्प्राप्युखानुदमुखान्वा शुचिवस्त्रान्फलहस्तान् शान्तिमत्रोच्चारपूर्व शान्तयेभिषिञ्चन्ति ॥
अधीयानेर्दिनमपि छन्दो नाग्राहि माणवैः । गोपीगीत्या हदोद्धान्तैः समेन विषमेण च ॥७॥ ७. अपिभित्रक्रमे । दिनं सकलदिवसं व्याप्याधीयानैरपि पठनि. रपि माणवैर्बटुभिश्छन्दो जयदेवादि वेदो वा नाग्राहि नागमितम् । केन कृत्वा । समेन तुल्यलक्षणलक्षिनपादचतुष्टयेन श्रियादिसमच्छन्दसा विषमण च भिन्नलक्षणलक्षितपादवतुष्केण पदचतुरू;दिविषमच्छन्दसा च । यद्वा समेन लक्षणया सुखपाठ्यस्थानकेन विषमेण च दुःखपाठ्यस्थानकेन च । यतो गोपीगीत्या गोपीनां शाल्यादिरक्षिकाणां स्त्रीणां गानेन हेतुना हृदा कृत्वोद्धान्तः शून्यचित्तैः । शून्यचित्तेन बहुपठ्यमानमपि हि शास्त्रं नागच्छति ।
धान्येनार्थ इतीन्द्रस्य मासा पूर्व पयोमुचः ।
कौतुकेनार्थिनः पौरा स्तम्भेनाद्राधुरुत्सवम् ॥ ८॥ ८. धान्येनार्थः कामिति हेतोर्य इन्द्रस्य स्तम्भेन महाध्वजपताकाकलितोन्नतस्थूणादण्डेनोपलक्षित उत्सवस्तं पौरी अद्राक्षुः । किंभूताः सन्तः । कौतुकेनार्थिनोभिलाषुका: । केत्याह । पयोमुचो वर्षाऋतोः सकाशान्मासा मासेन पूर्वम् । 'पूर्व तु पूर्वजे । प्रागने श्रुतभेदे च' इत्यभिधानादग्रत आश्विनपूर्णिमायामित्यर्थः । इन्द्रमहोत्सवो हि श्वेताश्विनाष्टम्या मारभ्य पूर्णिमां यावद्विधीयते । तथा चावश्यकचूर्णावस्वाध्यायप्रस्ताव १ बी डी राः स्त'. १ सी यति ॥. २ ए डी दिवेंदो. ३५ बी सी डी एफ .दि. ४ डी तमुत्स. ५ सी डी सवं पौ. ६ सी रा आद्रा'. ७ बी त्यर्थेमि.