________________
[है.२.२.३३.] द्वितीयः सर्गः। आभारी आभीरजातिक्षत्रिया प्राहरिप्वादयस्तांस्तेन लक्ष्यीकृत्य चे. यदि त्वं समराय चलितः कृतप्रयाणस्तदा हा प्राणेशान् कष्टं वल्लभानां मृत्युकालावाप्तेः । अत एव विधि देवं धिग् गर्हामहे । इत्येवं प्रकारेण वैरिखैणानि भाविस्वपतिमरणनिश्चयेन प्रलपेयुराक्रन्देयुरित्येवं मां प्रविभाति मम प्रतिभासते । इत्यहं जानामीत्यर्थः । ननु माहरिप्वाधरयोप्यातेशूरास्तत्तान्प्रति मयि रणायोद्यतेपि तत्पत्नीनां स्वभर्तृमृत्युनिश्चयेन विलाप: कथं त्वया विमृश्यत इत्याह । यतस्त्वं पार्थमतिस्थाना वृद्धोर्जुनस्यातिक्रमेण बलेन स्फीतः । अर्जुनादपि बलिष्ठ इत्यर्थः ।।
नृपेन्द्र । हत्यत्र "भामध्ये" [३२] इति प्रथमा । मित्रं समया । दुर्ग निकषा । हा प्राणेशान् । धिविधिम् । अन्तरा ते। भवनी दिघमन्तरेण । पार्थमति । बेन सुराष्ट्राम् । तेनाभीरान् । इत्यत्र “गौणात्" [३३] इत्यादिना द्वितीया । बहुवचनादन्येनापि युक्ताद्भवति । मां प्रतिभाति ॥ धातुसंबद्धोत्र प्रतिखेन "भागिनि " [३५] इत्यादिना व सिध्यति । मतमयूरं छन्दः ॥ भथ मनमुपसंहरनाह । उपर्युपरि भूभृतोध्यघि बनान्यधोधोम्बुधी
द्विषोभिगदितेमुना पुलकभृद्धपुः सर्वतः । भुजावुभयतः क्षिपन् समथो उदस्थापः
स्थितौ तमभितश्च तौ परित उत्थितस्ता जनः॥१०॥ ११०. नृपो मूलराज उदस्थात् । कीडक्सन् । वपुः सर्वतोङ्गस्य १ एफ इत्याचार्यश्रीहेमचन्द्राचार्यविरचिते शब्दानुशासनद्याश्रयमहाकाव्ये प्रभातमत्रवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥
१ एफ ‘रा जा". २ ए लधीक. ३ एफ ग्विधम् ।. ४ ६ °गिनीवेत्या. सी गिनवेत्या.