________________
२०६
व्याश्रयमहाकाव्ये
[ मूलराज: ]
कः । द्वौ । बहवः । इत्यत्र "नाम्नः ' [३१] इत्यादिना प्रथमा विभक्तिः ॥ अथैवमुक्तदुर्गमित्रंसहायसंपद्बलेन ग्राहांरेरतिबलिष्ठतां वदन्महाराजस्यैवायं साध्यो नान्यस्येति निर्धारयति ।
मित्रं नृपेन्द्र समया निकषाथ दुर्ग
यः सोप्यलं भवति किं पुनरन्तरा ते ।
1
तत्तं निहन्तुमवनीं दिवमन्तरेण
त्वामन्तरेण न हि संप्रति कश्चिदीशः ॥ १०८ ॥
१०८. हे नृपेन्द्र यः शत्रुर्मित्रं समया मित्रसमीपे स्यादेथाथ वा दुर्ग निकषा पर्वतान्ध्यादिदुर्गमस्थानसमीपे स्यात्सोप्यास्तां तावदेतद्वयसमीपस्थ एकतरसमीपस्थाप्यलं समर्थो भवति किं पुनस्ते मित्रदुर्गे अन्तरा । मित्रदुर्गयाय मध्यवर्ती स नितरां बलिष्ठ इत्यर्थः । तत्तस्माद्धेतोस्तं प्राहारि निहन्तुमवनीं दिवमन्तरेण यावापृथिव्योर्मध्ये त्वामन्तरेण विना संप्रत्यस्मिन्काले न कश्चित्कोपि सैन्यपत्यादिक ईशः समर्थः । वसन्ततिलका छन्दः ॥
योयं मित्रदुर्गसंपद्भ्यामतिबलिष्ठतया कस्याप्यन्यस्यासाध्यः स कदा चिन्ममाप्यसाध्यः स्यादिति राजा मा शङ्किष्ठेत्याह । तेनाभीरान्येन सुराष्ट्रामतिवृद्धः
पार्थ स्थानात्वं चलितश्चेत्समराय ।
हा प्राणेशान्धिविधिमेवं प्रलपेयु
र्वैरिणानीति विभो मां प्रतिभाति ।। १०९ ॥
१०९. हे विभो स्वामिन्सुराष्ट्रां सुराष्ट्रादेशं येन लक्ष्यीकृत्य य
१ वी महामं २ एफ हारिर. ३ एफू 'दथवा. ४ एफ ईदृश:.
५ एफू राष्ट्रदे° ६ एफू लक्षीकृ..