SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०८ व्याश्रयमहाकाव्ये [ मूलराजः] सर्वेषु प्रदेशेषु पुलकभृत् । क सति । भूभृतो गिरीनुपर्युपरि वनानि काननान्यध्यध्यम्बुधीनधोधः सर्वत्र क्रियाविशेपणादम् । सप्तमी वा । द्विप इत्यत्रेतिशब्दोध्याहार्यः । ततोयमर्थः । भूभृद्वनाम्बुधीनां प्रत्यासन्नं द्विषो ग्राहरिप्वादिशत्रवो वर्तन्त इत्येतस्मिन्नमुना जम्बकेनाभिगदिते भणिते । यद्वा भूभृद्वनाम्बुधीनां समीपे वर्तमानान्द्विषः शत्रूनभिर्लेक्ष्यीकृत्यामुना गदिते पूर्वोक्तरीत्या भणने द्विषन्नामश्रवणोद्भूतवीररसोल्लासवशेन सर्वाङ्गीणरोमाञ्चाञ्चित इत्यर्थः । तथा मदोर्दण्डयाः सतो: केद्यापि शत्रव इत्यहङ्कारेणोत्पनरणकण्ड्वा भुजावुभयतो दृशं क्षिपन् द्वयोरपि भुजयोरुपरि दृष्टिं व्यापारयन् । अथो भिन्नक्रमे नृप इत्यतो ज्ञेयः । अथो नृपोत्थानानन्तरं तं नृपमभित उभयपार्श्वयोः स्थिती सन्तौ तौ जम्बर्कजेहुलावुदस्थाताम् । उदस्थादित्येवार्थवशाद्विवचनान्ततया योज्यम् । तथा चो भिन्नक्रमे जन इत्यतो ज्ञेयः । तान्नृपंजेम्बकजेहुलान्परितः सर्वतो मन्त्रमण्डपबहिःस्थितो जनश्च परिवारलोकश्वोत्थितः । नृप उदस्थादित्यनेनातनसर्गे ग्राहारं प्रति नृपस्य प्रस्थानं वर्णयिष्यत इति सूचितम् ॥ अधोधोम्बुधीन् । अध्यधिवनानि । उपर्युपरि भूभृतः । इत्यत्र “द्वित्वेधः" [३४] इत्यादिना द्वितीया ॥ वपुः सर्वतः । भुजावुभयतः । तमभितः । तान्परितः । इत्यत्र "सर्वोभय" [३५] इत्यादिना द्वितीया ॥ पृथ्वी छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्ती द्वितीयः सर्गः समर्थितः ॥ १ सीम् । स्वस . २ ए एफ जम्बुके . ३ ए °म्बुद्वीस. ४ ए एफ ल. क्षीकृ. ५ डी भणिते दि.६ डी गीणं रो'. ७ बी रं नृ. ८ एफ तौ जम्बुक'. ९ए कहेहु. १० सीडी जेहला. ११ एफू जम्बुक. १२ सी डी रिं तं प्र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy