________________
[है० २.१.२८.]
द्वितीयः सर्गः ।
२०३
दुःखहेतुरिदमात्मन इति विरज्य मा निवर्तस्व । तथा मा प्रमाद्य यत्कार्य तद्दण्डनेतैव करिष्यतीत्यालस्यं कृत्वा मा निवर्तस्व । तथा मा जुगुप्सस्व नीचोयं स्वयमास्कन्तुमनुचित इति निन्दित्वा मा निवर्तस्व ।।
ननु साहाय्यकृन्मित्रसंपदादिरहितोयं सैन्येशेनापि सैन्यैरवेष्टन्धो दुर्गस्थोपि निरुद्धधान्यादिप्रवेशस्थानः सुसाध एव तत्किं तत्साधमाय मम स्वयमभिषेणनेनेति राजा मा स्म वददित्यस्य महामित्रसंपदमप्याह ॥
युधो पराजिष्णुररेर भीरुखाता तुरुष्कानपि कच्छदेशात् । कुतोप्यनन्तर्दधदस्य सोस्ति लक्षः सखा जात इवैकमातुः ॥ १०५ ॥
१०५. सोनेकावदातैः प्रसिद्धो लक्षो नाम कच्छदेशस्वाम्येकमातुर्जात इव सहोदर इवाविस्निग्धः सखास्य प्राहारेरेंस्ति । कीदृक् । अरेर भीरुरत्रस्तुरत एव युधो रणादपराजिष्णुर्दुःखेयं युदिति तामसहमानोनिवर्तिष्णुरत एव च कच्छदेशात्तुरुष्कानप्यासतामन्ये नृपाः सर्वजगद्भयंकरान्म्लेच्छानपि त्राता रक्षन्नत एवं च कुतोपि कस्मादप्यनन्तर्दधदनिलीयमानोनश्यन् ॥
ननु सखास्य दूरे भविष्यति ततः सन्नप्यसत्प्राय एवेति न वाच्यमित्याह । कच्छात्सुराष्ट्राष्टसु योजनेषु दीपोत्सवः पक्ष इवाश्वयुज्याः । फुल्लात्मभूतो न तदस्य दूरे स्थाम्नाधिको भूमिपतिभ्य उर्व्याम् १०६
१०६. यथाश्वयुज्या आश्विनपूर्णिमाया आरभ्य पक्षे गते दीपो
१ बीदार २ए 'बन्धो° ३ डी मा वादीदि. ४ सी र संपन्या ॥ नवोत्तरशततम श्लोकावतरणस्थित 'संपद्भ्याम्' इत्येतत्पदात्प्राक्तनो ग्रन्थो नास्ति. ५ एफ् ष्णुदुःखे ं. ६ एफ् 'व कु