SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ [हैं० २.२.२५. ] द्वितीयः सर्गः । २०१ अमुं प्राहारिमहोरात्रम् । एतेन भक्त्यतिशयोक्तिः । भजन्ति । एतेन बलसंपदतिशयोक्तिः । तत्तस्मात्तद्वधाय प्राहारिहत ये क्रोशान् शतं क्रोशशते दूरदेश इत्यर्थः । एतेन यदि सेनानीः कथमपि तेन भज्येत तदात्रस्थैर्भवद्भिरस्य साहाय्यं कर्तुं दुःशकमित्युक्तम् । सैन्यपतिं दिशन्नाज्ञापयंस्त्वं दात्रेण तरुं लुनासि यथा महत्वात्तरुर्दात्रेण च्छेत्तुं न शक्यते तथा त्वद्दण्डेशेनापि प्राहारिरित्यर्थः ॥ 1 अभिनिविश्य पार्श्वम् । इत्यत्र "वाभिनिविशः” [२२] इति कर्म वा ॥ व्यवस्थितविभाषेयम् । तेन क्व चित्कर्मसंज्ञैव । क्व चिदाधारसंज्ञैव । शास्त्रेभिनिविष्टं ॥ काल । त्रुटिमुदास्ते निशिसमुत्थितम् । अध्वा । योजनमस्ति क्रोशेस्ति । भाव | गोदोहमुदास्ते शालिपाकेप्यशायिनम् । देश । नरकमास्यते स्वपुर्या वसतः । इत्यत्र ‘“कालार्ध्वे” [२३] इत्यादिना कालादिराधारः कर्म वा । अकर्मच। यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यर्थः । तेन नरकमास्यते इत्यत्र सकर्मकत्वाद्वितीया । अकर्मकत्वाच्च भाव आत्मनेपदम् ॥ अन्ये तु सकर्मकाँणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमि च्छन्ति । भर्जन्त्यहोरात्रममुम् । क्रोशान्सैभ्यपतिं दिशन् । गोदोहमुद्यममत्यजंन्तः ॥ दात्रेण तरुं लुनासि । इत्यत्र " साधक" [२४] इत्यादिनां करणसंज्ञा ॥ तद्बधाय दिशन् । इत्यत्र “कर्माभि" [२५] इत्यादिना संप्रदानसंज्ञा ॥ ३ डी 'धः । १ डी 'शतदू". २ ए बी सी डी 'र्म । व्य०. ५ एफू म 1 ४ ए सी 'ध्वत्या. बी एफू 'ध्वभावेत्या. *°. ६ एपि भ ं. ७ एफ् 'काणां च ८ ए 'जन्ति हो ९ बी जन्तम् । दा. १० बी ना कार.. ११ सी-संज्ञा ।. २६ ant°.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy