________________
.१९६ ब्याश्रयमहाकाव्ये
[मूलराजः] हरः पुरं पुराख्यं दैत्यमचिक्रथद्धिंसितवान् । एवमुाः पृथ्व्या निम्नन्तममुं प्राहारिं त्वं प्रणिहि हिन्द्धि ॥
श्रुत्वेति वाचं द्विषतां प्रहन्तुं राज्ञा खरादीनिव निपहना। मन्त्री दृशा प्रेरित इत्यवोचत्स जम्बको जाम्बवदग्यबुद्धिः॥१६॥
९६. जम्बको नाम मत्रीति वक्ष्यमाणमवोचत् । यत इति पूर्वोक्तां वाचं जेहुलवाणीं श्रुत्वा द्विषतां ग्राहरिप्वादीनां शत्रूणां प्रहन्तुं राज्ञा मूलराजेन दृशा प्रेरितो व्यापारितः । शत्रवः कथं हन्तव्या इति दृक्संज्ञया पृष्ट इत्यर्थः । कस्मात्पृष्ट इत्याह । यतो जाम्बवान् सुग्रीवमत्री तस्यवाण्या बुद्धिर्यस्य सः खरादीनिप्रहब्रेव यथा खरदूषणादीन्निप्रहत्रा राज्ञा रामेण द्विषतां रावणादीनां प्रहन्तुं ढक्संज्ञया पृष्टो जाम्बवानवोचत् ॥
यशसां नाथसे तं नाथसे । इत्यत्र "नाथः' [१०] इति वा कर्म । "आशिषि नाथः" [३.३.३५] इत्यात्मनेपदम् ॥ आत्मन इत्येव । ननाथ त्वाम् ॥
स्मृतेः स्मरसि धर्म स्मरसि । रुषां दयस्व क्षमा मा दयस्त्र । तस्येशिषे स्वामीशानः । इत्यत्र "स्मृत्यर्थ." [११] इत्यादिना वा कर्म ॥
धियामुपस्कुरुष्व बलमुपस्कुरुष्व । इत्यत्र "कृगः" [१२] इत्यादिना वा कर्म ॥
राज्यस्य रुजेत् राष्ट्रं रुजेत् । हत्यत्र "हजार्थस्य" [१३] इत्यादिना वा कर्म ॥ ज्वरिसंतापिवर्जनं किम् । उवौं ज्वरैयन्तम् । संतापयन्तम् ॥
आमयं भुव उजासयत् । अद्विचक्रमुजासयितुम् । क्षमाया नाटयति अरिम
? एफ जम्बुको जाम्बुव.
१ एफ थहिसि. २ पफ जम्बुको'. ३ एफ् जाम्वुवा. ४ एफ रुषं द. ५ एफ संतपि. ६ एफ °रन्त°. ७ ए क्षमया.