________________
[है. २.२.१६.] द्वितीयः सर्गः ।
१९७ नुनाटयन् । प्रजानामुत्काथयन्तम् एनं कथय । लोकस्य पिंपन्तं तां पेष्टा । इत्यत्र "जासनाट" [१४] इत्यादिना वा कर्म ॥ जासनाटकाथानामाकारोपान्तनिर्देशो यत्राकारश्रुतिस्तत्र यथा स्यादित्येवमर्थः । तेनेह न स्यात् । जम्भमजीजसत् । मधुमनीनटत् । पुरमचिक्रथत् । अत एव च नाथेः कर्मसंज्ञाप्रतिषेधपक्षे इस्व. त्वाभावः । कर्मत्वे तु ह्रस्वत्वमेव ॥ ___उा निघ्नन्तम् । द्विषतां प्रहन्तुम् । इत्यत्र “निप्रेभ्यो नः" [१५] इति वा कर्म ॥ पक्षे । खरादीनिप्रहन्त्रा। अमुं प्रणिजहि ॥ न केपणायन् सुहृदां सुतांश्च व्यवाहरन्वा विभवानमूनाम् । कार्ये प्रभोर्जेहुलवत्त्ववादीत्तथ्यं च पथ्यं च न कश्चिदित्थम् ॥१७॥
९७. प्रभोः कार्ये । नैमित्तिक आधारे सप्तमीयम् । स्वामिकार्यार्थ के स्वामिभक्तभृत्याः सुहृदां मित्राणां सुतांश्च मित्रेभ्यः प्रियतराण्यपत्यानि च नापणायन । वाथवा । विभवान् बाह्याः प्राणा नृणामर्थ इति सुतेभ्योपि प्रियतराणि द्रव्याण्यसूनां विभवेभ्योपि प्रियतराणां प्राणानां च न व्यवाहरन् ऋयविक्रये द्यूतपणत्वे वा न नियुक्तवन्तः । किं त्वनेकेपि प्रभुकार्यार्थ सुहृदादि व्ययितवन्त इत्यर्थः । तुर्विशेषे । केवलं प्रभोः कार्ये जेहुलवत्तथ्यं च सत्यं च पध्यं च हितं चेत्थमुक्तरीत्या न कश्चिकोप्यवादीत् । एतेन जेहुलस्यात्यन्तिकी स्वामिभक्तिः प्रज्ञातिशयश्चोक्तः ॥
सुहृदामपणायन् सुतानपणायन् । असूनां व्यवाहरन् विभवान्ध्यवाहरन् । इत्यत्र "विनिमेय" [१६] इत्यादिना बा कर्म ॥
१ सी डीर्थस्सतस्या'. २ बी कार्थः क. ३ एफ इ वा. ४ ए विभावन्. ५ सी क्रये. ६ एफ ध्यं हि'.