________________
१९०
व्याश्रयमहाकाव्ये
[ मूलराजः]
आश्रमा मुनिस्थानानि तेषां या एण्यो मृग्यस्ता अपि । आसतां तावद्वनस्था मृग्य: प्रभासतीर्थाश्रमावस्थित्यातिपावित्र्यादवध्या अपीन्यपेरर्थः । आक्रन्दयन् । कन्दिरत्रान्तर्भूतण्यर्थः सकर्मकः । तीर्थाश्रमणीरप्याक्रन्दतः कर्णाद्यवयवग्रहेणाराटयतश्चित्रकायान्प्रयुखान: संश्चित्रकायैरेव कर्तृभिः प्रभासतीर्थाश्रमणीरपि खादयति ।।
तदेवमस्यात्यपन्यायकारितामविबलिष्ठतां च प्रतिपाद्याधुना कार्यमाह।
शब्दायय हायय माद्य दूतस्तं भक्षयन्तं जगताप्यभक्ष्यम् । शारीर्द्विपान्वाहय वाहयाज्ञां तद्दण्डचण्डां ननु दण्डनेत्रा ॥८७॥
८७. वत्तस्माद्धेतोः । नन्विति संबोधने । हे राजन्नभक्ष्यं गोमांसादि कर्म जगताप्यास्तां तावदात्मना लोकेनापि क; भक्षयन्तम् । उपलक्षणत्वादभक्ष्यभक्षणाद्यन्यायेषु जगदपि प्रवर्तयन्तं सन्तमित्यर्थः । तं पाहारिं दूतैः कर्तृभिर्मा शब्दायय मा वादय । तथा दूतैर्मा ह्वायय माकारय किं तु द्विपान शारीहस्तिपर्याणानि वाहय । शारीर्धारयतो द्विपान् प्रयुत युद्धाय सन्नाहयेत्यर्थः । तथा दण्डनेत्रा सेनान्या का दण्डचण्डां तन्निग्रहरौद्रामाज्ञां वाहय प्रापय तं विनाशयेत्यर्थः ।।
गयर्थ । भजीगमत्खेदमिलाम् ॥ सामान्यबोधार्थ । अबोधयनाररुज फणीन्द्रम्॥ विशेषबोधार्थ । अदर्शयत्कालपुरीमरातीन् ॥ आहारार्थ । अभोजयत्तत्पिशितं पिशाचान् ॥ शब्दक्रिय । बन्दीकृतान्दण्डमवीक्दत् ॥ शब्दव्याप्य । आश्रावयन्वाचं बन्दीकृतान् । नित्याकर्मक । संस्थापपन् पादम् ॥ इत्यत्र “ग
१ एफ चण्डी न. १ए °न्दतीः क. २ एफ त्यन्या'. ३ एफ चण्डी त'. ४ सी त्यर्थः । . ५ ए एफ पार्थः । अ. ६ एफ धार्थः । अ. ७ सी एफ रार्थः । भ. ८ ए सी मकः । सं.