SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १८८ व्याश्रयमहाकाव्ये (मूलराजः] स्वतत्रः कर्तेत्यनेन "स्वतन्त्रः कता" [२] इति सूत्रं सूचितम् ॥ प्रयोजकोपि कतैवेति भापयते सः ॥ कर्मेत्यंशेन "कर्नुाप्यं कर्म" [३] इति सूत्र व्याणि । तत्कर्म त्रेधा। निवर्त्य विकार्य प्राप्यं च । निर्वत्यै यथा । कुकर्म कर्ता ॥ विकार्य यथा। विश्वं तताप॥ प्राप्यं यथा । आट दिशः ॥ त्रिविधमप्येतत्पुनस्त्रिविधमिष्टमनिष्टमनुभयं च । तोष्टम् । कुकर्मादि । अनिष्टम् । अब्धीन् ललखे । दुर्गाण्यास । भयं न लेभे ॥ अनुभयम् । केल्याप्यटन् भापयते स भूपान् ॥ पुनस्तत्कर्म द्विविधं प्रधानेतरभेदात् । तर द्विकर्मकेषु धातुषु दुहि-भिक्षि-रुधि-प्रच्छि-चिग-बग-शास्वर्थेषु याचि-जयति-प्रभृतिषु च भवति । दुहार्थ । वसूनि गां दोधि । भिक्ष्यर्थ । मुनीन् याचतेर्थम् । एवं मुनीन् रुणद्धि वृत्तिम् । मुनीम सत्पथं पृच्छति । रानि रखाकरमुश्चिनोति। मुनीच सामाह । गामधर्ममनुशास्ति ॥ याचेरनुनया. र्थस्योदाहरणं स्वयं ज्ञेयम् ॥ जयतिप्रभृति । निधीन कुबेरं विजिगीषते । जहेन्यदारान्स्वपुरीम्।गा यतिनं मुमोष। भूणानकर्षगिनीम् । अप्रहीदेताननीती। गजाश्वगाः सिन्धुपति ममन्थ । महीभृतो भेदमुवाह । इन्द्रं गुणान्दण्डिसवान् ॥ तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययः । असौ प्राणान्विपक्ष्यिते । नीप्रभृतीनां तु प्रधाने कर्मणि । असौ स्वमर्तृभावं नीयते ॥ फालं स घातयामास न तेन कालः । इत्यत्र "धाकर्मणाम्" [५] इत्यादि. माणिगवस्थायां यः कर्ता स णौ सति वा कर्म ॥ सोजीगमत्खेदमिला बलौघैरवोधयद्भाररुजं फणीन्द्रम् । अदर्शयत्कालपुरीमरातीनभोजयत्तत्पिशितं पिशाचान् ॥७॥ १ सी डी चि. २ प ° व्यभितम् । त'. ३ बी एफ टमुभ. ४ बी एफ भे। उम. ५५ सी सी । ब. ६ सी साक'. ७ए सी 'नीती । ग. पफर्मजप्र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy