________________
[t० २.२.१.] द्वितीयः सर्गः ।
१८७ सस्य पितोप्रसेनो देवकीपिता देवकश्च भ्रातराविति कंसभगिनीत्वं देवक्याः । एतान्दशास्यादीननीतीरन्यदारापहारादिकानन्यायानसको प्राहारिः किमग्रहीत् । एषां पार्थादेता अनीती: किमसौ जमाहेत्यर्थः । एतासां सर्वासामप्यनीतीनामत्र दर्शनादेवमाशङ्का ॥ गजाश्वगाः सिन्धुपति ममन्य महीभृतो भेदमुवाह चेत्थम् । इन्द्रं गुणान्दण्डितवाणु कालं स घातयामास न तेन कालः ॥८॥
८३. स पाहारिः सिन्धुपति सिन्धुदेशाधिपं गजाश्वगा हस्तितुरङ्गवृषभान्ममन्थें मथित्वाग्रहीद्दण्डितवानित्यर्थः । तथा महीभृतो नृपान्भेदं संहत्यभावमुवाह च प्रापितवानन्यानृपान्कूटप्रयोगेण भेदितवानित्यर्थः । इत्थमनेन प्रकारेणेन्द्रं शक्रं गुणान् सिन्धुपतिमन्थनादीन धर्मान् दण्डितवान्नु किं हठाजग्राह । इन्द्रो हि सिन्धुपतिमब्धिमैरावणं गजमुचैःश्रवसमश्वं कामधेनुं गां च ममन्थ । वथा महीभृतोद्रीन्भेदं पक्षच्छेदमुवाह । एते चेन्द्रगुणा अत्रापीक्ष्यन्त इत्येवमाशङ्का । तथा स कालं यमं घावयामास । कर्माविवक्षायां जघान कालः । तं जनिवांसं स प्रयुयुजे युद्धादिविधानेन स सर्व घातिववानित्यर्थः । न तु काल: कर्ता वेन पाहरिपुणा प्रयोज्यकर्ता घातयामास । हनने कालस्यापि स प्रयोका न तु तस्य काल इत्यर्थः । इदमुक्तं स्याद्यत्रायं रुष्टस्तमसमयेपि यमो हन्ति यत्र त्वयं प्रसन्मस्तं समयेपि यमो दूरान्नमस्करोति ॥
क्रियाणां हेतुः कारकवदित्यनेन "क्रियाहेतुः कारकम्" [१] इति सूत्रं सू. चितम् ।
१ सीडी "वक. २ सी सी भूदे'. ३ एफ गम'. ४ एफ न्य अ. ५वी मथना. ६ एफ 'तिमै'. ७बी सर्व. ८ एफ त्र चायं.