SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये ૧૮૦ [ मूलराजः ] विद्वत्सङ्गमेपि पापिष्ठजनसङ्गनिरतस्येत्यर्थः । अतश्च पुंविदुषोपि नृषु मध्ये जानतोपि पापनिषेदुषः पापेन्यायकर्माणि तस्थुत्र: । विद्वज्जनसङ्गत्या धर्माधर्मादिविवेकं जानतोपि पापिष्ठजन संङ्गातिप्रसङ्गेन पापकर्मनिरतस्येत्यर्थः । तथा रौद्राणि भीष्माणि रुद्रदैवतानि वा यान्यस्त्राणि शस्वाणि तद्विषयं येद्वैदुष्यं नैपुण्यं तज्जुषते सेवते यस्तस्य । रौद्रास्त्रबलिष्ठत्वात्पापकर्मण: केनापि निवर्तयितुमशक्यस्य चेत्यर्थः ॥ २ ५ दुष्य । विदुषः । विदुषी । निषेदुषः । विषेदुषी । विदुष्मतः । उपेयुष्मतः । इत्यत्र “क्वसुष्मती च” [१०५] इत्युष् ॥ नृशंसतारण्यशुनोस्य यूनो जिघृक्षतो माघवनीं नु लक्ष्मीम् । मतिः शुनीपुच्छनिभातियूनी शल्यं मघोनीं भजतो मघोनः ॥ ७३ ॥ ७३. यूनस्तरुणस्यास्य प्राहरिपोर्नृशंसतया क्रूरत्वेनारण्यशुनो वृकतुल्यस्य सतो मतिरस्ति । किंभूता । अतियूनी युवानमतिक्रान्ता | युवा हि प्रायो यौवनेन मदोद्धतः स्यात्तस्मादपि मदोद्धतेत्यर्थः । शुनीपुच्छनिभा कुर्कुरीपुच्छवत्कुटिला च । उत्प्रेक्ष्यते । नास्य मतिर्मदेनोताना वक्रा च किं तु माघवनीं शक्रसत्कां लक्ष्मीं जिघृक्षतो नुं प्रहीतुमिच्छोरिव । यो चर्वादिस्थं फलं जिघृक्षति तस्योचफलोत्तारणायोत्ताना बक्रेाचाङ्कुटयष्टिः स्यात् । अत एव मघोनीं शचीं भजतोपि । अपिरत्र ज्ञेयः । मघोन इन्द्रस्य शल्यं रतिसुखसागरावगाहकालेपीन्द्रस्य तन्मतिर्हृदयस्था शल्यमिव 'दुःखाकरोतीत्यर्थः ॥ • १ एफ् सङ्गति. २ सी णि त. ३ सी डी यद्विदु ४ एफ नैः पु. ५ एफू निर्वृत्तयि. ६ एफ् शंसंसतारण्यशुनो नृसंशत ७ प्रेक्षते. ८ एफ् गृही. ९ एफ् काच कुट. १० वी एफ् दुःखं क
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy