________________
२७४
ध्याश्रयमहाकाव्ये
मूलराजः]
मन्धी । मभ्युदन्वत ॥ नानि । अभ्युदन्बत् । औदम्बत । इत्येते "उदन्यानग्धौ च" [९७] इति निपात्याः ॥ राजन्वती या हरिणा सुराष्ट्रा तां दल्मिमार्मिमदन्धिभीमः । शौर्योष्मकण्डा कृमिमानिवाद्य स भूमिमात्राजवतीं व्यधत्त ॥६४॥
६४. या सुराष्ट्रा देशो हरिणा विष्णुना कृत्वा शोभनो गजास्त्यस्यां गजन्वत्यासीत् । तां सुराष्ट्रामद्य सांप्रतं स भूमिमान्भूपतिर्माहरिपुनिन्द्यो राजास्त्यस्यां निन्दायां मतौ राजवती व्यवत्त । कीडक्सन । शौयोप्मकण्डा शौर्यस्य य ऊष्मा तीव्रता तेन या कण्डू: ग्वर्जूयुद्धविधानेच्छातिरेकलया कृमय: सन्त्यस्य कृमिमानिव । कृमिमान हि कण्डूयुक्त: स्यात् । अत एव दल्मिमान शस्त्रविशेषान्वितः । अत एव चोर्मिमदन्धिभीमः । यथा कल्लालान्वितः समुद्री रौद्रः स्यादेवं दल्मिधारणाद्रौद्रः । सुराष्ट्रायामतिरौद्रोयं कुगजाभूदित्यर्थः । गोहन्मुनीनां यवमत्कराणां माहिष्मतीशो नु ककुदमः। पुरे गरुत्पदनुपङ्कजाहे वसत्यसो भानुमतीशकल्पः ॥ ६५ ॥
६५. असौ ग्राहारि: पुरे वामनस्थल्या वसति । कीदृक्सन् । महिष्मान्देशस्तत्र भवा माहिष्मती पुरी तम्या ईशः सहस्रार्जुनो नु यथा सहस्रार्जुनो मुनीनां गोहन। तेन हि जमदनिमुनेः कामधेनुर्हठादपहृतेति पुराणम् । तथा यवमन्तो होमार्थ गृहीतयवा: करा येषां तेषां यागविधानन्यप्राणामित्यर्थः । मुनीनां गा हैयंगवीनहवनार्थ संगृहीता धेनूहरति चोरयति गोहृदपि । अपिरत्र ज्ञेयः । ककुनतो वृषभस्येवांसो स्कन्धौ यस्य स ककुमदंसोतिबलिष्ठः । किंभूत पुरे । गरुत्मान् गरुडो हनु
१५
. २ बी यामिनि'. ३ सीपी पिर'.