________________
[ है० २.१.९६.]
द्वितीयः सर्गः ।
स्वास्ति चक्रीवान् गर्दभ आभीर एवान्यायित्वेन निन्द्यत्वाचक्रीवांस्तस्मिन्विषये शंभुर्यदनुशासनं न्यदिक्षत्तयुक्तम् । धार्मिकस्य सैन्यादिसर्वशक्तियुक्तस्य तवान्यायिनि ग्राहरिपौ विषये यः शांभवोनुशासनादेश: स कर्तव्यो मे प्रतिभातीत्यर्थः ॥
१७३
अथ राशो मन्यूद्दीपनाय जगत्रयसंतापकानि प्राहरिपोरनेकान्यन्यायपदानि बलानि च वृत्तचतुर्विंशत्या वदनीशादेशस्यैव युक्तत द्रढयति ।
औदन्वतद्रोहकरेण चर्मवत्यस्थिमत्यर्दिततीर्यपान्यैः । कक्ष्यावतामप्यगमाभ्युदन्वत्प्रभास भूश्चक्रवतामुनाभूत् ।। ६३॥
'
६३. उदन्वन्तं समुद्रममि "लक्षणेनामि " [३.१.३३] इत्यादिनाम्ययीभावे अभ्युदन्वदुदन्वन्तं लक्ष्यीकृत्याभिमुखा प्रभासभूः प्रभासतीर्थभूमि: । प्रभासतीर्थ हि समुद्रसमीपेस्ति । यद्वाभ्यभित उदन्वती समुद्रोदकं बिभ्राणा या प्रभासभूः सा कक्ष्यावतामपि । कर्तरि षष्ठी । उद्यमवद्भिरैप्यगमागम्याभूत् । केन हेतुना । अधुना ग्राहारिणा । कीदृशेन । उदकमस्यास्त्युदन्वानृषिस्तस्यापत्यमौदन्वत ऋषिस्वस्य । यद्वोदन्वान्नामाश्रमस्तत्र भवा ऋषयस्तेषाम् । द्रोहकरेण जिघांसुना । तथा चक्रवता सुर्राष्ट्रादेश स्वामिना । कीदृक्सती भूः । अर्दितामुनैव विनाशिता ये तीर्थपान्था यात्रिकास्तैः कृत्वा चर्मवती चर्मान्विता । तथास्थिमती कीकसान्त्रिता च । अनेनानेकान् यात्रिकान् हतान् दृष्ट्ा यात्राश्रद्घालवोपि भयेन प्रभासे न गच्छन्तीत्यर्थः ॥
चर्मण्वती । महीवत् । चक्रीवति । कक्षीवत् । रुमण्वत् । इत्येते "चर्मण्यती" [१६] इत्यादिना निपात्याः ॥ नान्नीत्येव । धर्मवती । अस्थिमती । चक्रवता ।
कक्ष्यावताम् ॥
१ एफ आहीर. २ एक माहिरि ३ एफ् तां दृढ ४ एफू कक्षाव. ५ बी रप्यान ६ ए बी 'राष्ट्रदे. ७ एफ् 'पाताः ॥ ८ ए सी डी व । अ