________________
१७०
व्याश्रयमहाकाव्ये
[मूलराजः]
सको जज्ञे । अस्म्यहं नु प्रष्टा युवां पृच्छामि । किमित्याह । नु इति वितर्के । युवां वितर्केथां कथमस्य ग्राहरिपोस्तष्टा विनाशकोहं स्यां भवेयम् । अथ भणिष्यथो यद्यन्याय्यष तच्छिक्ष्यतां किमनेन प्रश्नेनेत्याह । स्वरोपित आत्मसंस्थापिते जन ऊर्जयतीत्यूर्व सात्त्विकः पुमान्पुरुषगुणोपेतः कः प्रजिही: प्रहर्तुमिच्छेत् । न कोपीत्यर्थः । एवं चास्य वध्यत्वावध्यत्वरूपयोविरुद्धकार्ययोरुपस्थितयोः किं कार्यमित्यहं युवां
प्रष्टा
॥
तस्माद्यवां यद्विधेयं तद्वदतमित्याह । त्वमभ्यपापा गुरुणाभ्यजर्घास्त्वं चोशनस्त्वं रिपुहा महात्मन् । भियामधामन्मतिधाम कृत्यं युवां ब्रुवाथामनहर्विलम्बम् ॥६०॥
६०. हे महात्मन् विपुलाशय भियां भयानामधामन्नस्थान मतिधाम बुद्धिगृह जम्बक रिपुहा त्वं गुरुणा बृहस्पतिना सहाभ्यपास्पा भृशमस्पर्धथाः । बुध्या त्वं बृहस्पतितुल्य इत्यर्थः। तथा हे महात्मन् भियामधामन्मतिधाम जेहुल रिपुहा त्वमुशनस्त्वं शुक्रत्वमभ्यजर्घा भृशमैगृध्यो भृशमकाङ्गः । बुद्धयों त्वं शुक्रसम इत्यर्थः । तस्माद्युवां नास्त्यहो विलम्वो यत्र तत् शीघ्रं कृत्यं विधेयं ब्रुवायाम् ।
यज । यष्टा । विप्रेट् ॥ मृज् । स्रष्टा । राष्टिमृड्भ्याम् ॥ मृज् । मार्टा । कंसमुझ्याम् ॥ राज । राष्टि । सम्राट् ॥ भाज् । उद्राष्टि । विभ्राट् ॥ भ्रस् । परिभृष्ट । वर्गभृड्भ्याम् ॥ ब्रस्च् । ब्रष्ट प्रभासवृड् ॥ परिवाज् । परिवाट् ॥ शकारान्त । निविष्टः । विट् । छादेशोपि शो गृह्यते । प्रष्टा । इत्यत्र "यजसृज" [८७] इत्यादिना षः ।
१एफ जम्बुक. २ एफ °तिसम . ३ सी डी मका. ४ एफ या शु. ५ एफ ब्रुवीया'. ६ डी ब्रम् ।. ७ ए बी यजस'.