________________
१६८
व्याश्रयमहाकाव्ये
[मूलराजः]
प्रतीहारे । किंभूते। जनेषु विज्ञापकलोकेषु विषये वक्तरि वदति । किमित्याह । किमात्य किमिति ब्रूषेधुना विज्ञापनार्या नावसर इति तूष्णी तिछेत्यर्थ इति । निषेध्यानां जनानां बहुत्वेपि प्रत्येकं निषेघस्य विवक्षितत्वादात्येत्यत्रैकवचनम् । कीदृक् सः । भक्तिभाग्विनयान्विता वाग्वाणी येषां तैस्तथाभूतैर्नुपर्नद्धाः परिहिता ये मौलयो नृपचिह्नमुकुटानि तत्र यानि रत्नानि तैरश्चिते पूजिते उपानही पादुके यस्य स तथा । मुकुटबद्धनृपैः कृतप्राभातिकसेवावसर इत्यर्थः ।। नद । उपानत् । आस्थ । इत्यत्र "नहाहोर्धतौ" [८५] इति धतौ ॥
वकरि । वाई । जैः । भक्ति । माग । इत्यत्र "चजः कगम्" [८६] इति कगी। विभेद् स यष्टेव शतं ऋतूनां मार्टा गुणानां गुणराष्टिसङ्ग्याम् । सम्राडमूभ्यामरिवर्ग,इभ्यां स्रष्टेव विभ्राडिषिकसमृड्भ्याम्।।५७॥
५७. स सम्राड् नृपेशोमूभ्यां जम्बकजेहुलाभ्यां सह विभ्राट शोभमानोभूत् । कीदृक् । ऋतूनां शतं यष्टेव शतक्रतुरिव विप्रान् यजते पूजयति किपि विप्रेट् । यथेन्द्रः क्रतूनां शतं कारयन्विप्रानिष्टवांस्तथा यजन् । तथा गुणानां भीमत्वकान्तत्वादीनां मार्टा यथोचितं व्यापारणेन निर्मलीकारकः । कीदृग्भ्याममूभ्याम् । गुणराष्टिसृड्भ्यां गुणै राष्टिं राजनं शोभा सृजतः कुरुतो यौ ताभ्यां गुणैः शोभनाभ्यामित्यर्थः । अत एवारिवर्ग स्वस्य राक्षश्च बार्षमान्तरं च शत्रुसमूहं भृज्जतः
१डी येषु व. २ एफ यानव. ३ सी डी धाय वि. ४ पफ ये मूल'. ५ सी चिहा मु. डी चिहानि मु. ६डी क् . एफ क् म. ७ सीजक. ८ एफ मका. ९एफ चितन्यापारेण नि. १० एफ