________________
१६४ व्याश्रयमहाकाव्ये
[मूलराजः] श्रिताः । हि यस्मादुत्कृष्टा गुणा बुद्ध्युत्साहादयो येषां तैर्गुणाधिकैर्गुरुभिः सदा यूयमान्वग्राहिध्वं सदुपदेशदानादिना समन्तादनुगृहीताः ॥ किमन्वकारिद्वमुतान्वसारिध्वं किं नु मेहिध्व इनेन भाभिः । तमोलविवं द्विषतोलविध्वं यूयं हि विश्वं पुपुविद् एतत् ॥५१॥
५१. हे राजन् हि यस्मायूयं नीतिशास्त्रादिसकलशास्त्रवेदितृत्वात्तमोज्ञानमलविट्वम् । तथा द्विषतोरीनलविध्वम् । तथैतद्विश्वं भूलोकं पुपुविट्स अन्यायमलापनयनेन पवित्रितवन्तः। तस्माद्धेतोरिनेन रविणा का भाभिस्तेजोभिः कृत्वा तमोलवनादिस्वकार्यनिष्पादनाय यूयं कर्म किमन्वकारिड्वम् । अन्तर्भूतणिगर्थत्वात्कृगः । किं यूयं रविणात्मानमनुकारिताः स्वसदृशीकृता इत्यर्थः । उत किं वेनेन भाभिः कृत्वा यूयमन्वसारिध्वमनुसृता रविणा किं तेजोभिर्भवतां साहाय्यं कृतमित्यर्थः । किं नु किं वा यूयं भाभिर्मेहिवे तेजोदानेन सन्मानिताः । इदमुक्तं स्यात्तमोलवनादीनि हि रविकार्याणि । एतानि च यूयमपि चक्र । ततो बन्दिभिरेवमाशङ्कयते । योपीनेन स्वामिना स्वकार्यकरणक्षमतया स्वसदृशः कृत्वा लोके स्थाप्यते साहाय्याय सैन्यादिनानुगम्यते विभूतिदानादिना सक्रियते वा स स्वामिकार्याणि कुरुते ॥ यद्यज्ञविनाल्लुविध्व एत्यानुग्राहिषीई ननु तैरिदानीम् । संस्कारिषीट्वं परिकारिपीध्वं द्राग्याहिषीध्वं च गुणैस्तदीयैः ॥५२॥
५२. हे राजन् यद्यज्ञविनान् येषां मुनीनां यज्ञेषु विनान्दैत्यादिकृतोपद्रवान् यूयं लुलुविध्वे । नन्विति संबोधने । वैर्मुनिभिरिदानी प्रातरेत्याश्रमेभ्य आगत्यानुप्राहिषीट्वमाशिषानुगृह्मध्वम् । मुनयो हि राक्षः
१ एफ 'यमन्त्र. २ ए सी इंस्तथा. ३ बी एफ किं चेने'. ४ सी डी ना का. ५ एफ मूतदा.