________________
१५८
व्याश्रयमहाकाव्य
[ मूलराजः
युङ शीकरैः प्राङ् मरुदुन्मदक्रुङ् सजू रजोभिः स्फुटमम्बुजानाम् । आदावहःस्वेष जडत्वदस्तद्रविः कृताहा अकृताह एव ॥ ४३ ॥
४३. अहःसु दिनेष्वादौ प्रभात एष मरुद्वातो जडत्वं शैत्यं ददाति जडत्वदोस्ति । कीहक्सन् । शीकरैर्जलकणैर्युङ् युक्तोत एवोन्मदा उन्मत्ताः कुञ्च: सारसा यस्मात्सः । प्रातः शीतवातस्पर्श हि क्रौञ्चा माय॑न्ति । तथा प्रशस्तं मृद्वञ्चति गच्छति प्राङ् । तथा विकसितत्वा. दम्बुजानां रजोभिः स्फुटं व्यक्तं सजू: संबद्धः । तत्तस्माद्धेतो रविः कृताहा अपि । अपिरत्राध्याहार्यः । अकृताह एव । दिने हि रविकिरणैर्जाड्यं खण्ड्यते तच प्राभातिके शीतले वाते वाति तवस्थमेवेत्यैर्केण दिनं कृतमप्यकृतमेवेत्यर्थः । युर । प्राङ् । कुरु । इत्यत्र “युज" [१] इत्यादिना ः ॥ रविः । रजोमिः । इत्यत्र “सो रु" [२] इति रुः ॥ सजूः । इत्यत्र “सजुषः" [७३] इति रुः ॥ कृताहाः । अहः । इत्यत्र "अहः" [५] इति रुः ॥ कृताहाः । इत्यत्र रूस्वस्थासत्त्वाचान्तलक्षणो दीर्घा भवति। कश्चित्तु दीर्घ नेच्छति। तन्मते कृताहः ॥
जयत्यहोरनमहविधित्सु स्फूर्जत्यहोरूपमथ प्रवृत्ताः। भवत्यहोरात्रकृताशिषोहो रथन्तरं सामविदश्च गातुम् ॥४४॥ ४४. हे राजन्नहविधित्सु दिनं चिकीर्ध्वहोरत्नं दिनमणिः सूर्यो १ सी होरथं. १ए क्रुषसा. २ सी स्माद्धे. डी स्माद्धेतोस्स उन्मदक्रुङ तथा स्फुटं प्रकटमम्बु. जानां रजोभिः सजूः सहित एतेन शीतो मन्दः सुरमिश्च । त्रिधा वायुरुदाहत इति । तत्तस्मा. ३ एफ षन्ते । त". ४ ए अकृ. ५ सीडी पिर. ६ सी एफच प्रभा.७५ सी डी त्यर्थः ॥ ८ए दिनीचि.