________________
१५०
न्याश्रयमहाकाव्ये
[मूलराव
अमुमुयङ् । इत्यत्र "मादुवर्णोनु" [४०] इति-उवर्णः ॥ अन्विति किमर्थम् । ममुयोरित्यत्र एत्वादिषु कार्येषु कृतेषूवर्णो यथा स्यादित्येवमर्थम् ॥ अमुना । इत्यत्र “प्रागिनात्" [४८] इति उवर्णः ॥ अमी । इत्यत्र "बहुवेरीः" [१९] इति ईकारः ॥ निया । लुवा । अधीयन्तः । स्तुवन्तः । इत्यत्र “धातोरिवर्ण" [५०] इत्यादिनेयुवौ ॥ ईयुः । इत्यत्र “इणः" [५१] इति-इय् ॥ यवक्रियः । कटवः । शिश्रियुः । इत्यत्र “संयोगात्" [५२] इति वोरपवादावियुवौ ॥ धातुना संयोगस्य विशेषणादिह न भवति । उपयः । असकृल्लः ॥ पश्यन्ति सिद्धतिय उद्दुवोर्कमाराभुवन्तं किल पादपातैः। आशास्त्रियः स्त्रीरिव पअिनीश्च धुश्रीस्त्रियं स्त्रीमिव खश्रियं च ३५
३५. अणिमाद्यष्टविधैश्वर्यवन्त: सिद्धास्तेषां खिय उदूर्वा भ्रुवो यासां ता उद्भुवः सत्योर्क पश्यन्ति । यतः पादपातैः किरणनिक्षेपैरथ च पादेषु पातैश्चरणप्रणामैः कृत्वाराध्रुवन्तं किल प्रसादयन्तमिव । काः । आशास्त्रियो दिगङ्गनास्तथा पद्मिनीः स्त्रीरिव । तथा रविकिरणपञ्चशती स्वर्गमप्युद्योतयतीतिप्रसिद्धेर्युश्रीस्त्रियं स्वर्गलक्ष्मीमेवाङ्गनां खश्रियं चाकाशलक्ष्मी च स्त्रीमिव । योपि कान्तः प्रेमानुविद्धः स्वकान्ताः पादपातैराराधयति तमन्यस्त्रियोहो अस्य स्वकान्तासु प्रेमानुबन्धो यद्यस्माकमपीदृशः पतिः स्यादित्यभिलाषेणोद्भुवः पश्यन्ति ।। बहुवः । आरानुवन्तम् । इत्यत्र “भूभोः" [५३] इति-उन् ।
१ एफ शाः सि.
१५ वन्त्यः ।. २ एफ शाः लि. ३ सी डी लक्ष्मी च. ४ एफ प्रेम्णानु.