________________
१४२ द्यायमहाकाव्ये
[मूलराजः] वो नः । इत्यत्र “पदापुग्" [२१] इत्यादिना द्वितीयाचतुर्थीषष्ठीबहुवचनैः सह वस्नसौ ॥
वा नौ । इत्यत्र "द्वित्वे वान्नौ" [२२] इति द्वितीयाचतुर्थीपष्ठीद्विवचनैः सह वांनाचौ ॥ ते मे । इत्यत्र "हेडसा ते मे" [२३] इति ते मे ॥ स्वा मा । इत्यत्र "अमा त्वा मा" [२४] इति त्वामादेशौ ॥ महर्षयोस्माननुशिष्ट कृत्यं देवाः समे मा परिरक्षतेति । विमा वरा मां प्रपुनीत चेति सूर्येश मावेति च वागिदानीम् ॥२३॥
___२३. इदानीं प्रभाते वाग् वाणी वर्तते । अर्थाद्धार्मिकाणाम् । कथं कथमित्याह । हे महर्षयोस्मान् कृत्यं धर्मकार्यमनुशिष्टोपदिशतेति । इतिरत्राध्याहार्यः । तथा हे देवा अहंदादयः समे सर्वे मा मां परिरक्षत संसारापायेभ्यः पातेति । तथा हे विप्रा वरा ज्ञानक्रियाभ्यां श्रेष्ठा यूयं मां प्रपुनीताशीर्दानपूर्व मस्तकोपरि मत्रपूतदूर्वाक्षतक्षेपादिना पवित्रयतति च । तथा हे सूर्य ईश स्वामिन् मा मामव रक्षेति । धार्मिका हि प्रातर्धर्मश्रवणादि वाञ्छन्ति ।
महर्षयोस्मान् । इत्यत्र "असदिव" [२५] इत्यादिना-भामध्यपदस्यास. त्वम् ॥
देवाः समे मा विप्रा वरा माम् । इत्यत्र "अति" [२६] इत्यादिना आमज्यविशेष्यस्य वासत्वम् ॥
सूर्येश माव । इत्यत्र "नान्यत्" [२७] इति असत्त्वनिषेधः ॥
१ सी डी हवां. २ डीवांनौ च ते. एफ वां नौ ते. ३ एफ शीर्वादपूर्वकं मो. ४ एफ दिई'. ५ एफ शेषस्य पदस्यास.